________________
अस्मिंश्च सति 'नन्दिः समृद्धिः 'सदा सर्वकालं 'संयमें चारित्रे भूयात्, उक्तं च–'पढमं नाणं तओ दया' किंविशिष्ट संयमे ? 'देवनागसुपर्णकिन्नरगणैः सद्भूतभावेनार्चिते देवा वैमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः, उपलक्षणं शेषाणां, देवमित्यनुवारश्छन्दःपूरणे, तथा च संयमवन्तोऽय॑न्त | एव देवादिभिः, यत्र जिनमते किं? यन्त्र लोकनं लोको ज्ञानं प्रतिष्ठितस्तद्वशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योगः । केचिन्मनुष्यलोकमेव जगन्मन्यन्ते अत आह–'त्रैलोक्यमासुरं' आधाराधेयरूपं, अयमित्थंभूतो 'धर्मः' श्रुतधर्मो 'वर्द्धता वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणं शाश्वतमप्रच्युत्या, वर्द्धतामिति, 'विजयतः परप्रवादिविजयेन 'धर्मोत्तरं चारित्रधर्मोत्तरं चारित्रधर्मप्राधान्यं यथा स्यादित्यर्थः । | 'वर्द्धता' पुनर्वृद्धयभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ । तथा च तीर्थकरनामकर्महेतून प्रतिपादयतोक्तं "अपुव्वनाणगहणे” इति । प्रणिधानमेतन्मोक्षबीजकल्पं परमार्थतो नाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्गार्थ पठति पठन्ति वा "सुअस्स भगवओ करेमि काउस्सग्गमित्यादि वोसिरामीति यावत्' अर्थः पूर्ववत्, नवरं-'श्रुतस्येति प्रवचनस्य सामायिकादेबिन्दुसारपर्यन्तस्य 'भगवतो' यशोमाहात्म्यादियुक्तस्य, ततः कायोत्सर्गकरणं, पूर्ववत्पारयित्वा श्रुतस्य स्तुतिं पठति ।
"सुअनाणत्थयरूवो, अहिगारो होइ एस सत्तमओ। इह पय संपय सोलस, नवुत्तरा वण्ण दुन्निसया ॥१॥" चितुर्थो दण्डकः । ततश्चानुष्ठानपरम्पराफलभूतेभ्यः सिद्धेभ्यो नमस्कारकरणायेदं पठति पठन्ति वा "सिद्धाणं
CASSANSAR
Jain Education in
For Private & Personel Use Only
HTMainelibrary.org