________________
॥१५९॥
SANCHAMICROSOMRSACROCOCKS
कल्लाणपुक्खलविसालसुहावहस्स । को देवदाणवनरिंदगणचियस्स, धम्मस्स सारमुवलम्भ करे पमायं ॥३॥" कः? सचेतनो 'धर्मस्य' श्रुतधर्मस्य 'सारं' सामर्थ्य 'उपलभ्य विज्ञाय श्रुतधर्मोदितेऽनुष्ठाने 'प्रमादं अनादरं कुर्यात्, न कश्चिद् कुर्यादित्यर्थः । किंविशिष्टस्य श्रुतधर्मस्य ? जातिर्जन्म, जरा विस्रसा, मरणं प्राणनाशः, शोको मानसो दुःखविशेषः, तान् प्रणाशयति अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, श्रुतधर्मस्यानुष्ठानाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तं, कल्यमारोग्यमणति शब्दयतीति क|ल्याणं, पुष्कलं सम्पूर्ण, न च तदल्पं, किन्तु विशालं विस्तीर्ण, एवंभूतं सुखमावहति प्रापयतीति कल्याण| पुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रापकत्वमाह, देवानां दानवानां नरेन्द्राणां च गणैरर्चितस्य पूजितस्य, सुरगणनरेन्द्रमहितस्येत्यस्यैव निगमनं देवदाणवेत्यादि । यतश्चैवमतः-"सिद्धे भो पयओ नमो जिणमए नंदी सया संजमे, देवंनागसुवण्णकिन्नरगणस्सन्भूयभावच्चिए । लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो वड्डउ सासओ विजयओ धम्मुत्तरं वड्डउ ॥४॥” 'सिद्धः' फलाव्यभिचारेण प्रतिष्ठितः, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटीपरिशुद्धत्वेन च प्रत्याख्यातस्तस्मिन्, भो इत्यतिशायिनामामन्त्रणं, पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति 'नमो जिणमए' नमो जिनमताय, प्राकृतत्वाचतुर्थ्याः सप्तमी, कुर्वे इति शेषः, प्रयतो भूत्वा जिनमताय नमस्करोमीत्यर्थः।।
-
॥१५९॥
-
Jain Education inte
For Private & Personel Use Only
Minijainelibrary.org