________________
नादित्वात्, नैवं, बीजाङ्करवत्तदुपपत्तेः, बीजाद्धि अङ्करो भवति, अङ्कराच बीजमिति, एवं भगवतां पूर्वजन्मनि श्रुतधर्माभ्यासात्तीर्थकरत्वं, तीर्थकृतां च श्रुतधर्मादिकरत्वमदुष्टमेव, न चैवमपि वचनपूर्वकमेव सर्वज्ञत्वमिति नियमः; मरुदेव्यादौ व्यभिचारादिति वाच्यं, इत्थमपि शब्दरूपवचनपूर्वकत्वनियमाभावेऽपि अर्थपरिज्ञानरूपवचनपूर्वकत्वनियमस्याव्याहतत्वादित्यलं प्रसङ्गेन । एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता, एष षष्टोऽधिकारः । इदानीं श्रुतधर्मस्याह-"तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे, पप्फोडियमोहजालस्स ॥ २ ॥" तमोज्ज्ञानं तदेव तिमिरं, अथवा बडस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः, निकाचितं तिमिरं, ततस्तमस्तिमिरस्य, तमस्तिमिरयोर्वा, पटलं वृन्द, तद्विध्वंसयति विनाशयतीति नन्द्यादित्वादने(श्रीसि०५-१-५२) तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनैवास्य प्रवृत्तेः, 'सुरगणैः' चतुर्विधामरनिकायैः 'नरेन्द्रैः' चक्रवादिभिः 'महितः पूजितस्तस्य, आगममहिमां हि कुर्वन्त्येव सुरादयः, सीमां मर्यादां धारयतीति सीमाधरस्तस्य, श्रुतधर्मस्य इति विशेष्यं, ततः कर्मणि(श्रीसि० २-२-४०) द्वितीया तस्याश्च कचिद्वितीयादे(श्रीसि० ८-३-१३४रिति) प्राकृतसूत्राषष्ठी, अतस्तं वन्दे, तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्ध षष्ठी, अथवा तस्य वन्दे वन्दनं करोमीति । प्रकर्षेण स्फोटितं विदारितं मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य, श्रुतधर्मे हि सति विवेकिनो मोहजालं विलयमुपयात्येव । इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपाद्यन्नाह-"जाईजरामरणसोगपणासणस्स,
Jain Education in
For Private & Personel Use Only
Mainelibrary.org