________________
धर्म
॥ १५८ ॥
Jain Education
रुक्ता, इदानीं सर्वे अर्हन्तस्तद्गुणा इति सर्वलोकग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणी स्तुतिः, अन्यथा अन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यग, अतिप्रसङ्गात् इति सर्वतीर्थकराणां स्तुतिरुक्ता । एष सर्वलो - कस्थापनार्हत्स्तवरूपः पञ्चमोऽधिकारः । इदानीं येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्त्तनं, तत्रापि तत्प्रणेतृन् भगवतस्तत्प्रथमं स्तौति – “पुक्खरवरदीवडे, धायइसंडे य जंबुदीवे य । भरहेरवयविदेहे, धम्माइगरे नम॑सामि ॥ १ ॥" भरतं भरतक्षेत्रं ऐरवतमैरवतक्षेत्रं | विदेहमिति भीमो भीमसेन इति न्यायात् महाविदेहक्षेत्रं एवं (षां) समाहारद्वन्द्वः तेषु भरतैरवतविदेहेषु, 'धर्मस्य' श्रुतधर्मस्य, 'आदिकरान् सूत्रतः प्रथमकरणशीलान् 'नमस्यामि' स्तुवे, कत्यानि भरतैरवतमहाविदेहक्षेत्राणीत्याह - पुष्कराणि पद्मानि तैर्वरः पुष्करवरः स चासौ द्वीपश्च पुष्करवरद्वीपस्तृतीयो द्वीपस्तस्यार्द्ध मानुषोत्तरचलादवग्भागवर्त्ति, तत्र द्वे भरते द्वे ऐरवते दे महाविदेहे, तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिन् दे भरते द्वे ऐरवते द्वे महाविदेहे, जम्ब्वा उपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीप:, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदश कर्मभूमयः, शेषास्त्वकर्मभूमयः, यदाह"भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः” (श्रीतत्त्वा० अ ३-१६) महत्तरक्षेत्र प्राधान्याङ्गीकरणाच पश्चानुपूर्व्या निर्देशः, धर्मादिकरत्वं च वचनापौरुषेयत्वनिराकरणादेव व्यक्तम्, उक्तं च 'इणमचंतविरुद्धं, वयणं चापोरुसेअं च'त्ति, नन्वेवमपि कथं धर्मादिकरत्वं भगवतां ? 'तप्पुव्विआ अरह्या' इति वचनात् वचनस्या
For Private & Personal Use Only
संग्रह
॥ १५८ ॥
jainelibrary.org