________________
३-१३६ ति
परमखास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव अत आह-'उत्तम' सर्वोत्कृष्ट 'ददत
प्रयच्छन्तु, एतच्च भक्त्योच्यते, यत उक्तम्-"भासा असच्चमोसा, नवरं भत्तीइ भासिआ एसा । नहु खीणदिपेजदोसा, दिति समाहिं च बोहिं च ॥१॥” तथा “चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा । साग-16
रवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥८॥” पञ्चम्यास्तृतीया चे(श्रीसि०८-३-१३६ ति) पञ्चम्यर्थे सप्तमी, अतश्चन्द्रश्यो निर्मलतराः सकलकर्ममलापगमात्, पाठान्तरं वा 'चंदेहिं निम्मलयरा एवमादित्येभ्यः अधिक प्रकाशकराः केवलोद्योतेन लोकालोकप्रकाशकत्वात्, उक्तं च-"चंदाइचगहाणं, पहा पयासेइ परिमियं खित्तं । केवलियनाणलंभो, लोआलोअं पयासेइ ॥१॥” सागरवरः खयम्भूरमणाख्यः समुद्रः परीषहोपसर्गाद्यक्षोभ्यत्वात्तस्मादपि गम्भीराः, सिद्धाः कर्मविगमात् कृतकृत्याः, सिद्धिं परमपदप्राप्ति, मम दिशन्तु प्रयच्छन्तु, 'अडवीसपयपमाणा, इह संपय वण्ण दुसयछप्पन्ना। नामजिणत्थयरूवो, चउत्थओ एस अहिगारो ॥ १ ॥” इति नामार्हद्वन्दनाधिकाररूपश्चतुर्थोऽधिकारस्तृतीयो दण्डकः । एवं चतुर्विशतिस्तवमुक्त्वा सर्वलोक एवार्हच्चैत्यानां वन्दनाद्यर्थ कायोत्सर्गकरणायेदं पठति पठन्ति वा-"सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि वोसिरामीति यावत्" व्याख्या पूर्ववत्, नवरं-सर्वश्चासौ लोकश्च अधऊर्ध्वतिर्यग्भेस्तस्मिंस्त्रैलोक्य इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवाहच्चैत्यानि, ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुति
शकत्वातवा 'चंदेहिं
ACACANCER
SACROCOMSACSCAM
NA
Jnin Education in
For Private & Personal Use Only
Mainelibrary.org