________________
॥१५७॥
विधृतरजोमलाः' रजश्च मलं च रजोमले विधूते प्रकम्पिते अनेकार्थत्वादपनीते रजोमले यैस्तै विधूतरजोदामला:, बध्यमानं च कर्म रजः पूर्वबद्धं तु मलं, अथवा बद्धं रजो निकाचितं मलम् , अथवा ऐर्यापथं रजः
साम्परायिकं मलमिति । यतश्चैवंभूता अत एव 'प्रक्षीणजरामरणाः' कारणाभावात्, 'चतुर्विंशतिरपि अपिशब्दादन्येऽपि 'जिनवराः' श्रुतादिजिनेभ्यः प्रकृष्टाः, ते च 'तीर्थकरा' इति पूर्ववत्, ‘में मम, किम् ? 'प्रसीदन्तु प्रसादपरा भवन्तु, ते च वीतरागत्वाद्यद्यपि स्तुता स्तोषं निन्दिताश्च द्वेषं न यान्ति, तथापि स्तोता स्तुतिफलं निन्दकश्च निन्दाफलमाप्नोत्येव, यथा चिन्तामणिमन्त्राधाराधकः । यदुक्तं वीतरागस्तवे श्रीहेमसूरिभिः-"अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः॥१॥” इति, अथ यदि न प्रसीदन्ति तत्कि प्रसीदन्विति वृथा प्रलापेन ?, नैवं, भक्त्यतिशयेन एवमभिधानेऽपि न दोषः, यदाह -क्षीणक्लेशा एते, न हि प्रसीदन्ति न स्तवोऽपि वृथा। तत्स्वभाव(खाभाव्य)विशुद्धेः,प्रयोजनं कर्मविगम इति
तथा "कित्तियवंदियमहिआ, जेए लोगस्स उत्तमा सिद्धा। आरोग्गबोहिलाभ, समाहिवरमुत्तमं दिंतु॥६॥" कीर्तिताः' खनामभिः प्रोक्ताः, 'वन्दिताः' त्रिविधयोगेन सम्यग् स्तुताः 'महिताः पुष्पादिभिः पूजिता, मइआ इति पाठान्तरं तत्र मया, क एते ? इत्याह य एते 'लोकस्य प्राणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः प्रकृष्टाः, सिद्ध्यन्ति स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थ बोधिलाभः अहत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तं, तदर्थं च समाधिवरं वरसमाधि
MORRUGALORERASACCOUNSENSEX
॥१५७ ॥
ला Jain Education International
For Private & Personel Use Only
www.jainelibrary.org