________________
संग्रह
धर्म- ॥१५॥
पपन्नं माध्यस्थ्यं, परं तस्य विचित्राचारस्वेन भिन्नाचारस्थितानां तेषां खखमतनिष्ठानां कथं तदुपपद्यते? तभावे च कथं देशनायोग्यत्वमित्यन्नाह-योगेत्यादि । यद्यस्माद्धेतोः, तस्येति शेषः, 'योगदृष्टयुदयात्' योगदृष्टिप्रादुर्भावात् 'आदिमं' 'गुणस्थानं' 'सार्थ' अन्वर्थ भवति । अयं भावः-मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपातं परित्यज्याद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद्यदा संवेगतारतम्यमा-2 मुवन्ति । तदा मार्गाभिमुख्यात्तेषामिक्षुरसककबगुडकल्पा मित्रा तारा बला दीपा चेति चतस्रो योगदृष्टय उल्लसन्ति । भगवत्पतञ्जलिभदन्तभास्करादीनां तदभ्युपगमात् । तत्र मित्रायां दृष्टौ खल्पो बोधो, यमो योगाङ्ग, देवकार्यादावखेदो योगबीजोपादानं, भवोद्वेगः सिद्धान्तलेखनादिकं बीजश्रुतोपरमः श्रद्धासङ्गमश्च भवति, चरमयथाप्रवृत्तकरणसामर्थेन कर्ममलस्याल्पीकृतत्वादत एवेदं चरमयथाप्रवृत्तकरणं परमार्थतोऽपूर्वकरणमेवेति योगबिन्दौ व्यवस्थितम् । तथा च तद्रन्थ:-"अपूर्वासन्नभावेन, व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः।१। प्रथमं यद्गुणस्थानं, सामान्येनोपवर्णितम् । अस्यां तु तवस्थायां, मुख्यमन्वर्थयोगतः॥” इतिः, १ तारायां तु मनाक स्पष्टं दर्शनं, शुभा नियमाः, तत्त्वजिज्ञासा, योगकथाखविच्छिन्ना प्रीतिर्भावयोगिषु यथाशक्तयुपचार, उचितक्रियाऽहानिः, स्वाचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति । तथास्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनान्नानाविधमुमुक्षुप्रवृत्तेः कात्स्न्येन ज्ञातुमशक्यत्वाच्च शिष्टाचरितमेव पुरस्कृत्य प्रवर्तते । उक्तं च-"नास्माकं महती प्रज्ञा, सुमहान् शास्त्र
॥१५॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org