________________
Jain Education In
वर्त्तार्द्ध, यावत्, यद्यस्मादूर्ध्वं न किञ्चिद्धीनं 'एतस्मिन्' ग्रन्थिभेदे कृते सति 'संसारो' जीवानां तीर्थकरायाशातनाबहुलानामपीति । विंशिकायामपि - "अचरमपरिअट्टेसुं, कालो भवबालकालमो भणिओ । चरमो अ धम्मजुव्वणकालो तह चित्तभेओत्ति ॥ १ ॥ ता बीअपुव्वकालो, णेओ भवबालकाल एवेह । इअरो उ धम्मजुव्वणकालो विहिलिंगगम्मुन्ति ॥ २ ॥" ननु – गलमच्छभवविमो अगविसन्नभोईण जारिसो एसो । मोहा सुहोवि असुहो, तप्फलओ एवमेसोत्ति । १ । श्रीहरिभद्रवचनानुसारेण विपर्यासयुक्तत्वान्मिथ्यादृशां शुभपरिणामोऽपि फलतोऽशुभ एवेति कथमादिधार्मिकस्य देशनायोग्यत्वमित्याशङ्कायामाह - ' मध्यस्थत्वाद्' | इति रागद्वेषरहितत्वात् सर्वोक्तगुणयोगादेव माध्यस्थ्योपसंपत्तेरित्यर्थः । मध्यस्थस्यैव चागमेषु धर्मार्ह त्वमतिपादनात् यतः -रत्तो १ दुट्ठो २ मूढो ३ पुव्विं वुग्गाहिओ अ ४ चत्तारि । एए धम्माणरिहा, धम्मे अरिहो उ मज्झत्थो । १ । त्ति” श्रीहारिभद्रवचनं तु कदाग्रहग्रस्ताभिग्रहिकमाश्रित्येति न विरोधः । इदमत्र हृदयम् - यः खलु मिथ्यादृशामपि केषाञ्चित्स्वपक्षनिबद्धोदुरानुबन्धानामपि प्रबलमोहत्वे सत्यपि कारणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो भूयानपि दृश्यते स पापानुबन्धिपुण्यहेतुत्वात्पर्यन्तदारुण एव, तत्फलसुखव्यामूढानां तेषां पुण्याभासकर्मोपरमे नरकादिपातावश्यंभावादित्य सत्प्रवृत्तिरेवायं । यश्च गुणवत्पुरुषप्रज्ञापनार्हत्वेन जिज्ञासादिगुणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमः; स तु सत्प्रवृत्तिरेवाग्रहनिवृत्तेः सदर्थपक्षपातसारत्वादिति । नन्वेवमपि स्वागमानुसारिण आदिधार्मिकस्यो
For Private & Personal Use Only
jainelibrary.org