SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ संग्रह. ॥१४॥ इति।अत एवाह-'कालस्तु'अवसरःपुनरपुनर्बन्धकप्रभृतिस्तत्रादिशब्दान्मार्गाभिमुखमार्गपतितौ गृह्यते। तत्र मार्गश्चेतसोऽवक्रगमनं भुजङ्गनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः खरसवाही क्षयोपशमविशेषो हेतुखरूपफलशुद्ध्यभिमुख इत्यर्थस्तत्र पतितो भव्यविशेषो मागेपतित इत्युच्यते । तदादिभावापन्नश्च मार्गाभिमुख इति । एतौ चरमयथाप्रवृत्तकरणभागभाजावेव ज्ञेयौ । अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य है। स तथा, धीरनिर्दिष्टो व्यवहारत इति ।१। निश्चयतस्तु कालो ग्रन्थिभेदकाल एव, यस्मिन् कालेऽपूर्वकरणानिवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति तस्मिन्नेवेत्यर्थः । यतोऽस्मिन् विधिनाऽवस्थोचितकृत्यकरणलक्षणेन सदा सर्वकालं या पालना वचनौषधस्य तया कृत्वाऽऽरोग्यं संसारव्याधिरोधलक्षणम्, एतस्माद्वचनौषधप्रयोगाद्भवति । अपुनर्बन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथासूक्ष्मबोधविधायकोऽनाभोगबहुलवात्तत्तत्कालस्य । भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेनातिनिपुणबुद्धितया तेषु २ कृत्येषु वर्तमानास्तत्कर्मव्याधिसमुच्छेदका जायन्त इति । ग्रन्थिभेदमेव पुरस्कुर्वन्नाह-" इयरा वि हंदि एयंमि, एस आरोग्गसाहगो चेव । पुग्गलपरिअदृद्धं, जमूणमेअंमि संसारो।१।” व्याख्या-'इतरथापि' विधेः सदापालनमन्तरेणापि, हन्दीति पूर्ववत्, एतस्मिन् ग्रन्थिभेदे कृते सति एष वचनौषधप्रयोगः 'आरोग्यसाधकश्चैव' भावारोग्यनिष्पादक एव संपद्यते । तथाच पठ्यते-“लब्ध्वा मुहूर्तमपि ये परिवर्जयन्ति, सम्यक्त्वरत्नमनवद्यपदप्रदायि । यास्यन्ति तेऽपि न चिरं भववारिराशौ, तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् ॥१॥” अत्र हेतुमाह- पुद्गलपरा ॥१४॥ Jan Education For Private Personel Use Only Dainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy