SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १५६ ॥ Jain Education Int तस्यां स्थितवानिति निरुक्तात्कुन्थुः, तथा गर्भस्थे रत्नानां कुन्थुराशिं दृष्टवतीति कुन्थुः १७, सर्वोत्तमे महा| सत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्वैरसावर उदाहृतः ॥ १ ॥ इतिवचनादरः, तथा गर्भस्थे जनन्या | स्वप्ने रत्नमयोऽरो दृष्टः इति अरः १८, परीषहादिमलजयात् निरुक्तात् मल्लिः, तथा गर्भस्थे मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मल्लिः १९, मन्यते जगतस्त्रिकालावस्थामिति मुनिः, मनेरुदेतौ चास्य वे (श्रीसि० उणादि : ६१२)ति इप्रत्यये उपान्तस्योत्त्वं शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्वासी, सुत्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत्सुव्रता जातेति मुनिसुव्रत: २०, परीषहोपसर्गादिनामनान्नस्तु वे (क्रमितमिस्तम्भेरिच नमेस्तु वा श्रीसि० उणादिः ६१३) ति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः २१, धर्मचक्रस्य नेमिवन्नेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिर्दृष्ट इति रिष्टनेमिः, अपश्चमादिशब्दवत् नञ्पूर्वत्वेऽरिष्टनेमिः २२, पश्यति सर्वभावानिति निरुक्तात्पार्श्वः, तथा गर्भस्थे जनन्या निशि शयनीयस्थाया अन्धकारे सर्पों दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पार्श्वः, पार्श्वोऽस्य वैयावृत्त्यकरस्तस्य नाथः भीमो भीमसेन इतिवत्पार्श्वः २३, उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, तथा गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिभिर्वर्द्धत इति वर्द्धमानः २४ । विशेषाभिधानार्थसंग्राहिकाचेमाः श्रीभद्रबाहु खामिप्रणीता गाथा: - “ऊरूसूसह लंछणमुसभं सुमिणंमि तेण उसहजिणो । अक्खेसु जेण अजिया, जणणी अजिओ जिणो तम्हा ॥ १ ॥ अभि For Private & Personal Use Only संग्रह ॥ १५६ ॥ w.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy