SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Jain Education गर्भस्थे भगवति जनन्यपि सुपार्श्वा जातेति सुपार्श्वः ७, चन्द्रस्येव प्रभा ज्योत्ला सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः, तथा देव्याञ्श्चन्द्रपानदोहदोऽभूच्चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः ८, शोभनो विधि: सर्वत्र कौशलमस्येति सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः, पुष्पकलिकाम नोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं नाम ९, सकलसत्त्व सन्तापहरणात् शीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नोचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः १०, सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान्, श्रेयांसावंसावस्येति पृषोद्रादित्वाच्छ्रेयांसो वा, तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रान्तेति श्रेयो जातमिति श्रेयांसः ११, वसवो देवविशेषास्तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि (श्रीसि० प्रज्ञादिभ्योऽण ७-२-१६५) वासुपूज्यः, तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा तस्येद (श्रीसि०६-३-१६० ) मित्यणि वासुपूज्यः १२, विगतमलो विमलानि वा ज्ञानादीन्यस्येति विमलः, तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः १३, अनन्तकर्माशान् जयति अनन्तैर्वा ज्ञानादिभिर्जयति इति अनन्तजित्, तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टं जयति च त्रिभुवनेऽपीति अनन्तजित् भीमो भीमसेन इति न्यायादनन्त इति १४, दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः १५, शान्तियोगात्तदात्मकत्वात्तत्तत्कर्तृत्वाद्वा शान्तिरिति, तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः १६, कुः पृथ्वी For Private & Personal Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy