________________
धम
संग्रह.
॥१५५॥
ACACAMAROSAGACASSES
यिष्यामीति तत्कीर्तनं कुर्वन्नाह-"उसभमजियं च वंदे, संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २॥ सुविहिं च पुप्फदंतं, सीयलसिजंसवासुपुजं च। विमलमणंतं च जिणं, धम्म है संतिं च वंदामि ॥३॥ कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिहनेमि, पासं तह वद्धमाणं च ॥४॥” समुदायः सुगमार्थः । पदार्थस्तु विभज्यते-सच सामान्यतो विशेषतश्च, तंत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, 'उदृत्वादी (श्रीसि०८-१-१३१) इत्युत्त्वे उसहो, वृषभ इत्यपि, वर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगदिति अस्यान्वर्थः, वृषभे वा वे(श्रीसि०८-२-१३२)ति वकारेण ऋत उत्त्वे अस्यापि उसहो, विशेषतस्तु ऊर्वोवृषभो लाञ्छनमभूद्भगवतो, जनन्या च चतुर्दशानां स्वमानां आदावृषभो दृष्टः, तेन ऋषभो वृषभो वा १, परीषहादिभिरनिर्जित इत्यजितः, तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जितेत्यजितः २, सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र 'शषोः सः' (श्रीसि०८-१-२६०) इति सत्वे सम्भवो, तथा गर्भागतेऽप्यस्मिन्नभ्यधिकसस्यसम्भवात्सम्भवः३, अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात्प्रभृत्येवाभीक्ष्णं शक्राभिनन्दनाभिनन्दनः ४, सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः ५, निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, तथा पद्मशयनदोह-18 दो मातुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति पद्मप्रभः ६, शोभनानि पार्थान्यस्येति सुपार्श्वः, तथा
in Educatan Intematos
For Private & Personal Use Only
www.jainelibrary.org