________________
GANGANAGAR
अथ बहवस्तत एक एव स्तुतिं पठति, अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति, यावत् स्तुतिसमाप्तिः, ततः सर्वेऽपि नमस्कारेण पारयन्तीति । तदनन्तरमेतस्यामेवावसर्पिण्यां ये भारते वर्षे तीर्थकृतोऽभूवन् तेषामेकक्षेत्रनिवासादिना आसन्नोपकारित्वेन कीर्तनाय चतुर्विशतिस्तवं पठति पठन्ति वा-"लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरहते कित्तइस्सं, चउवीसंपि केवली ॥१॥” 'अरहन्ते' इति विशेष्यपदम् , अर्हतउक्त निर्वचनान् , कीर्तयिष्ये नामोच्चारणपूर्वकं स्तोष्ये, ते च राज्याद्यवस्थासु द्रव्यार्हन्तो भवन्तीति भावाहत्त्वप्रतिपादनायाह 'केवलिनः' इति उत्पन्नकेवलज्ञानान भावात इत्यर्थः, अनेन ज्ञानातिशय उक्तः, तत्सड्वयामाह-'चतुर्विशतिम्' अपिशब्दादन्यानपि, किंविशिष्टान् ? 'लोकस्योद्योतकरान्' लोक्यते प्रमाणेन दृश्यत इति लोकः-पञ्चास्तिकायात्मकस्तस्योद्योतकरणशीलान् , केवलालोकप्रदीपेन सर्वलोकप्रकाशकरणशीलानित्यर्थः । ननु केवलिन इत्यनेनैव गतार्थमेतत्, लोकोद्योतकरणशीला एव हि केवलिनः, सत्यं, विज्ञानादैतनिरासेनोद्योतकादुद्योत्यस्य भेददर्शनार्थ, लोकोद्योतकरत्वं च तत्श्रावकानामुपकाराय, न चानुपकारिणः कोऽपि स्तौतीति उपकारकत्वप्रदर्शनायाह-'धर्मतीर्थकरान्' धर्म-उक्तस्वरूपः, तीर्यतेऽनेनेति तीर्थ, धर्मप्रधानं तीर्थ धर्मतीर्थ, धर्मग्रहणाद्रव्यतीर्थस्य नद्यादेः शाक्यादिसम्बन्धिनश्चाधर्मप्रधानस्य परिहारः, तत्करणशीला धर्मतीर्थकरास्तान्, सदेवमनुजासुरायां पर्षदि सर्वभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्तकानित्यर्थः, अनेन पूजातिशयो वागतिशयश्चोक्तः। अपायापगमातिशयमाह 'जिनान्' रागद्वेषादिजेतृनित्यर्थः, यदुक्तं-कीर्त
Jain Education in
For Private & Personel Use Only
15AMjainelibrary.org