SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ धर्म ॥१५४॥ ROLOCALGAONKARAULOADS स्सग्गं” 'श्रद्धा' मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिवच्चेतसः प्रसादजननी तया श्रद्धया, संग्रह. |नतु बलाभियोगादिना, एवं मेधया न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेधया-मर्यादावर्तितया, नासमञ्जसत्वेन, एवं धृत्या-मनःसमाधिलक्षणया, न रागद्वेषाद्याकुलतया, एवं धारणया-अहद्गुणाविस्मरणरूपया, नतु तच्छ्न्य तया, एवमनुप्रेक्षया-अर्हद्गुणानामेव मुहुर्मुहुरनुस्मरणेन, न तद्वैकल्येन । वर्द्धमानयेति श्रहादिभिः प्रत्येकमभिसम्बध्यते, श्रद्धादीनां क्रमो-है। पन्यासो लाभापेक्षया, श्रद्धायां हि सत्यां मेधा, तद्भावे धृतिः, ततो धारणा, तदन्वनुप्रेक्षा, वृद्धिरप्यासामित्थमेव । तिष्ठामि-करोमि । ननु प्राकरोमि कायोत्सर्गमित्युक्तं, साम्प्रतं तिष्ठामीति किमर्थमुच्यते? सत्यं, सत्सामीप्ये सद्वत्प्रत्ययो भवतीति (श्रीसि०सत्सामीप्ये सदा ५-४-१) करोमि करिष्यामीति क्रियाभिमुख्यं पूर्वमुक्तं, इदानीं त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात्तिष्ठाम्यवाहमिति । किं सर्वथा तिष्ठामि कायोत्सर्ग ? नेत्याह-'अन्नत्थ ऊससिएणं इत्यादि व्याख्या पूर्ववत् । अत्रापि विश्रामाष्टकोल्लिङ्गनपदानि “अरिहं १ वंदण २ सद्धा ३, अन्न ४ सुहुम ५ एव ६ जा ७ ताव ८। अड संपय तेआला, पय वण्णा दुसय तीसहिआ॥१॥ एष स्थापनार्हद्वन्दनाख्यस्तृतीयोऽधिकारः । द्वितीयो दण्डकः । कायोत्सर्गश्चाष्टो ॥१५४॥ च्छ्वासमात्रः, न त्वत्र ध्येयनियमोऽस्ति । कायोत्सर्गान्ते च ययेक एव ततो 'नमो अरिहंताण मितिनमस्कारेण पारयित्वा यत्र चैत्यवन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति, Jain Education For Private Personal use only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy