SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 626 LOCCUSACROCOCOCCALOCALCORRESS च यतेः पूजनसत्कारौ अनुचितौ, द्रव्यस्तवत्वात्, श्रावकस्य तु साक्षात्पूजासत्कारकर्तुः कायोत्सर्गद्वारेण है तत्प्रार्थना निष्फला, उच्यते, साधोव्यस्तवप्रतिषेधः खयंकरणमधिकृत्य, न पुनः कारणानुमती, यतः "अकसिणपवत्तगाण"मित्यादि, तथा “यस्तृणमयीमपि कुटी"मित्यादि, तथा "जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानी" त्युपदेशदानतः कारणसद्भावो, भाभगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि, यदाह "सुच्चइ अ वइररिसिणा, कारवणंपि य अणुट्टि यमिमस्स । वायगगंथेसु तहा, एयगया देसणा चेव ॥ १ ॥” श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थ पूजासत्कारी प्रार्थयमानो न निष्फलारम्भः । तथा 'सम्माणवत्तियाए' सन्मानप्रत्ययं सन्माननिमित्तं, सन्मानः-स्तुत्यादिभिर्गुणोन्नतिकरणं, मानसः प्रीतिविशेष इत्यन्ये । अथ वन्दनादयः किंनिमित्तमित्याह-'बोहिलाभवत्तियाए' बोधिलाभोर्हत्प्रणीतधर्मावाप्तिस्तत्प्रत्ययं तन्निमित्तं बोधिलाभोऽपि किंनिमित्तमित्याह-निरुवसग्गवत्तियाए' जन्माशुपसर्गाभावेन निरुपसर्गों मोक्षस्तत्प्रत्ययं तन्निमित्तं । ननु साधुश्रावकयोबोंधिलाभोऽस्त्येव, तत् किं सतस्तस्य प्रार्थनया ? बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव, उच्यते, क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवात्, जन्मान्तरे च तस्यार्थ्यमानत्वात्, निरुपस|र्गोऽपि तद्वारेण प्रार्थ्यत एवेति युक्तस्तयोरुपन्यासः । अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह-"सद्धाए मेहाए घिईए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउ Jain Education For Private Personal Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy