________________
धर्म
॥ १५३ ॥
| हृदध्यारोपाच्च स्थापनार्हतामपि पुरः पव्यमानो न दोषाय । “तित्तीसं च पयाई, नव संपय वण्ण दुसयबासट्ठा । भावजिणत्थयरूवो, अहिगारो एस पढमोन्ति ॥ १ ॥” अतोऽनन्तरं त्रिकालवर्त्तिद्रव्यार्हद्वन्दनार्थमिमां गाथां पूर्वाचार्याः पठन्ति - "जे य अईया सिद्धा, जे य भविस्संतणागए काले । संपइ य वहमाणा, सव्वे तिविहेण वंदामि ॥ १ ॥ कण्ठ्या । ननु कथं द्रव्यार्हन्तो नरकादिगतिं गता अपि भावार्हद्वद्वन्दनार्हा ? इति चेत्, उच्यते, | सर्वत्र तावन्नामस्थापनाद्रव्यार्हन्तो भावार्हदवस्थां हृदि व्यवस्थाप्य नमस्कार्या इति । द्रव्यार्हद्वन्दनार्थोऽयं द्वितीयोऽधिकारः । ततश्चोत्थाय स्थापनार्हद्वन्दनार्थ पादाश्रितया जिनमुद्रया हस्ताश्रितया च योगमुद्रयापि 'अरिहन्तचेइआण' मित्यादि सूत्रं पठति, अर्हतां-पूर्वोक्तखरूपाणां चैत्यानि प्रतिमालक्षणानि अर्हचैत्यानि चित्तमन्तःकरणं तस्य भावः कर्म वा वर्णदृढादित्वाद् द्व्यण (श्रीसि० वर्णदृढादिभ्यष्ट्यण् च वा ७-१-५९) चैत्यं, बहुविषयत्वे चैत्यानि, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिवच्चित्तोत्पादकत्वादर्हचैत्यानि भण्यन्ते, तेषां वन्दनादिप्रत्ययं कायोत्सर्ग करोमीति सम्बन्धः । कायस्य शरीरस्य उत्सर्गः कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण | क्रियान्तराध्यासमधिकृत्य परित्यागस्तं करोमि । 'वंदणवत्तिआए' इति, वन्दनम्- अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं, कथं नाम कायोत्सर्गादेव मम वन्दनं स्याद् ? इति । वत्तियाए इत्यार्षत्वात्सिद्धं, एवं सर्वत्र द्रष्टव्यं । तथा 'पूयणवत्तियाएं पूजनप्रत्ययं पूजननिमित्तं, पूजनं गन्धमाल्यादिभिरभ्यर्चनं, तथा 'सक्कारवत्तियाए' सत्कारप्रत्ययं सत्कारनिमित्तं, सत्कारः - प्रवरवस्त्राभरणादिभिरभ्यर्चनं । ननु
Jain Education International
For Private & Personal Use Only
संग्रह
॥ १५३ ॥
www.jainelibrary.org