________________
ALLAGCSMSSAGADCASSAMACROSS
गमनेन परिणामान्तरापत्त्या प्राप्तास्तेभ्यः, नहि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकखभावत्वात् , नित्यानां चैकरूपतया अवस्थानं, तद्भावाव्ययस्य नित्यत्वात्, अतः क्षेत्रासर्वगतपरिणामिनामेवैवं प्राप्तिसम्भव इति । अत एव 'कायप्रमाण आत्मेति सुस्थितं वचनं । तेभ्यो नम इति क्रियायोगः। एवंभूता एव प्रेक्षावतां नमस्काराहाः, आद्यन्तसङ्गतश्च नमस्कारो मध्यव्यापीति भावना । जितभया अप्येत एव नान्य इति प्रतिपादयितुमुपसंहरन्नाह-"नमो जिणाणं जियभयाणं" नमो जिनेभ्यो, जितभयेभ्यः, नमः पूर्ववत् जिना इति च, 'जितभयाः' भवप्रपञ्चनिवृत्तेः क्षपितभयाः। तदेवं 'सव्वण्णूणं सव्वदरिसीणं' इत्यत आरभ्य 'नमो जिणाणं जिअभयाण'मित्येवमन्तस्त्रिभिरालापकैः प्रधानगुणापरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी । अत्र स्तुतिप्रभावान्न पौनरुत्त्यशङ्का करणीया, यदाह"सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ, न होंति पुणरुत्तदोसा उ॥१॥” एताभिर्नवभिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणात्, [सङ्काचारवृत्ती तु आदावन्ते च त्रीन वारान् प्रणिपातः कर्त्तव्य उक्तः, तथा च तद्वन्धः-"कह नमंति सीसं?, 'सिरपंचमेणं काएण'मित्याचाराङ्गचूर्णिवचनात्पश्चाङ्गप्रणामं कुर्वता 'तिक्खुत्तो मुद्धाणं धरणीतलंसि निवेसेई” इत्यागमात्रीन् वारान् शिरसा भूमिं स्पृष्ट्वा भूनिहितजानुना कर
धृतयोगमुद्रया शक्रस्तवदण्डको भणनीयः । तदन्ते च पूर्ववत्प्रणामः कार्य इति] जिनजन्मादिषु खविमानेषु || हातीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते । अयं च प्रायेण भावार्ह द्विषयो, भावा
Jain Education in
For Private & Personel Use Only
ainelibrary.org