SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ संग्रह. धर्म- | शिष्टा अपि, ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्व मिति, न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात्, ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्म॥१५२॥ | विशिष्टा ज्ञानेन गम्यन्ते, अभ्यन्तरीकृतविषमताख्यधर्माण एव च समताधर्मविशिष्टा दर्शनेन गम्यन्त इति ज्ञानदर्शनयो सर्वार्थविषयत्वमिति सर्वज्ञा सर्वदर्शिनश्च, तेभ्यः । एते च सर्वेऽपि सर्वगतात्मवादिभिः मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते, यदाहुस्ते–'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः । तन्निराकरणार्थमाह-"सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं" 'शिव' सर्वोपद्रवरहितत्वात् , 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियारहितत्वात्, 'अरुज' व्याधिवेदनारहितं, तन्निबन्धनयोः शरीरमनसोरभावात् , 'अनन्तम्'अनन्तज्ञानविषययुक्तत्वात् , 'अक्षयं' विनाशकारणाभावात्, सततमनश्वरमित्यर्थः 'अव्याबाधम्' अकर्मत्वात्, "अपुनरावृत्ति न पुनरावृत्तिः-संसारे अवतारो यस्मात् सिद्धिगतिनामधेयं सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव च गम्यमानत्वाद्गतिः सिद्धिगतिरेव नामधेयं यस्य तत्तथा, तिष्ठन्त्यस्मिन्निति स्थानं, व्यवहारतः सिडिक्षेत्रं, यदाहुः-"इहं बुदिं चइत्ता णं, तत्थ गंतूण सिज्झइ" इति, निश्चयतस्तु खरूपमेव, 'सर्वे भावा आत्मभावे तिष्ठन्तीतिवचनात् । विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा संभवन्ति, तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं 'स्थान' 'संप्राप्ताः' सम्यगशेषकर्मक्षयविच्युत्या स्वरूप SASUALSO चलं' स्वाभाविकमवावाहमपुणवत्र तिष्ठन्ति पि सर्वगतात्मागम्य ॥१५२॥ Join Education in For Private Personal Use Only Mainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy