SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ क्तत्वान्मुक्ताः कृतकृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात्, हीनादिकरणे च रागद्वेषानुषङ्गः, न चान्यत्रान्यस्य लयः सम्भवति, एकतराभावप्रसङ्गात्, एवं जगत्कर्तरि लयाभावात् मुक्तत्वसिद्धिः। एवं मोचयन्त्यन्यानपीति मोचकास्तेभ्यः। एवं च जिनत्वजापकत्व-तीर्णत्व-तारकत्व-बुद्धत्व-बोधकत्व-मुक्तत्व-मोचकत्वैः खपरहितसिद्धरात्मतुल्यपरफलकर्तृत्वसम्पदष्टमी । एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिनश्चेष्यन्ते 'वुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते' इतिवचनात्, एतन्निराकरणायाह-"सवण्णूणं सव्वदरिसीणं" सर्व जानन्तीति सर्वज्ञाः, सर्व पश्यन्तीत्येवंशीलाः सर्वदर्शिनः, तत्वभावत्वे सति निरावरणत्वात् , उक्तं च-"स्थितः शीतांशुवजीवः, प्रकृत्या शुद्धभावया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥ १ ॥" न कारणाभावे कर्ता तत्फलसाधक इत्यपि नैकान्तिकम्, परनिष्ठितप्लवकस्य तरकाण्डाभावेऽपि प्लवदर्शनात्, इति बुद्धिलक्षणकारणमन्तरेणापि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः । अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद्दर्शनस्य च सामान्यविषयत्वात्तयोः सर्वार्थविषयत्वमयुक्तं, तदुभयस्य सर्वार्थविषयत्वादिति, उच्यते, न हि सामान्यविशेषयोर्भेद एव, किन्तु त एव पदार्थाः समविषमतया संप्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । आह-एवमपि ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते, न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते, न विषमताधर्मवि Jain Education in For Private & Personel Use Only (M yjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy