________________
क्तत्वान्मुक्ताः कृतकृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात्, हीनादिकरणे च रागद्वेषानुषङ्गः, न चान्यत्रान्यस्य लयः सम्भवति, एकतराभावप्रसङ्गात्, एवं जगत्कर्तरि लयाभावात् मुक्तत्वसिद्धिः। एवं मोचयन्त्यन्यानपीति मोचकास्तेभ्यः। एवं च जिनत्वजापकत्व-तीर्णत्व-तारकत्व-बुद्धत्व-बोधकत्व-मुक्तत्व-मोचकत्वैः खपरहितसिद्धरात्मतुल्यपरफलकर्तृत्वसम्पदष्टमी । एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिनश्चेष्यन्ते 'वुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते' इतिवचनात्, एतन्निराकरणायाह-"सवण्णूणं सव्वदरिसीणं" सर्व जानन्तीति सर्वज्ञाः, सर्व पश्यन्तीत्येवंशीलाः सर्वदर्शिनः, तत्वभावत्वे सति निरावरणत्वात् , उक्तं च-"स्थितः शीतांशुवजीवः, प्रकृत्या शुद्धभावया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥ १ ॥" न कारणाभावे कर्ता तत्फलसाधक इत्यपि नैकान्तिकम्, परनिष्ठितप्लवकस्य तरकाण्डाभावेऽपि प्लवदर्शनात्, इति बुद्धिलक्षणकारणमन्तरेणापि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः । अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद्दर्शनस्य च सामान्यविषयत्वात्तयोः सर्वार्थविषयत्वमयुक्तं, तदुभयस्य सर्वार्थविषयत्वादिति, उच्यते, न हि सामान्यविशेषयोर्भेद एव, किन्तु त एव पदार्थाः समविषमतया संप्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । आह-एवमपि ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते, न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते, न विषमताधर्मवि
Jain Education in
For Private & Personel Use Only
(M
yjainelibrary.org