________________
धर्म
॥ १५१ ॥
Jain Education In
छ
एवेष्यन्ते, 'भ्रान्तिमात्रमसद्विद्येति वचनात् एतद्व्यपोहायाह - “जिणाणं जावयाणं” रागादिजेतृत्वाज्जिनाः, न च रागादीनामसत्त्वं प्रतिप्राण्यनुभवसिद्धत्वात्, न चानुभवोऽपि भ्रान्तः, सुखदुःखाद्यनुभवेष्वपि भ्रान्तिप्रसङ्गात्, एवं च जेयसम्भवाज्जिनत्वमविरुद्धम्, एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकास्तेभ्यः । एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ते, 'काल एव कृत्स्नं जगदावर्त्तयती 'तिवचनात्, एतन्निरासायाह — "तिष्णाणं तारयाणं” सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः, न चैषां तीर्णानां पारगतानामावर्त्तः सम्भवति, तद्भावे मुक्त्यसिद्धेः एवं च न मुक्तः पुनर्भवे भवतीति तीर्णत्वसिद्धिः । एवं तारयन्त्यन्यानपीति तारकास्तेभ्यः । एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैरबुद्धादय एवेष्यन्ते 'अप्रत्यक्षा हि नो बुद्धिः, प्रत्यक्षोऽर्थ:' इतिवचनात् एतद्व्यवच्छेदार्थमाह - "बुद्धाणं बोहयाणं", अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं खसंविदितेन ज्ञानेन बुद्धवन्तो बुद्धाः, न चाखसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति, न ह्यदृष्टप्रदीपो बाह्यमर्थ प्रत्यक्षं करोति, न चेन्द्रियवद - संविदितस्यापि ज्ञानस्यार्थप्रत्यक्षीकरणम्, इन्द्रियस्य भावेन्द्रियत्वात्, तस्य च स्वसंविदितरूपत्वात्, यदाह - "अप्रत्यक्षोपलम्भस्य, नार्थदृष्टिः प्रसिद्ध्यति” एवं च सिद्धं बुद्धत्वम् । एवमपरानपि बोधयन्तीति बोधकास्तेभ्यः । एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादद्य एवेष्यन्ते 'ब्रह्मवद्ब्रह्मसङ्गतानां स्थिति रिति वचनात्, एतन्निराचिकीर्षयाऽऽह — “मुत्ताणं मोअगाणं" चतुर्गतिविपाकचित्रकर्मबन्धमु
For Private & Personal Use Only
संग्रह
॥ १५१ ॥
Jainelibrary.org