SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ न वर्तन्त इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः, 'चाउरंतेति समृद्ध्यादित्वादात्त्वं(श्रीसि०८-१-४८)। धर्मदत्वादिभिः स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुक्ता, इदानीं "सर्व पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु कीटसङ्ख्यापरिज्ञानं, तस्य नः कोपयुज्यते ? ॥१॥” इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्त्वदर्शनवादिनः सौगतान् । प्रतिक्षिपति-"अप्पडियवरनाणदंसणधराणं विअछउमाणं' 'अप्रतिहते सर्वत्राप्रतिस्खलिते 'वरे' क्षायिकत्वात् प्रधाने 'ज्ञानदर्शने' विशेषसामान्यावबोधरूपे धारयन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः | अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनवभावतया च, ज्ञानग्रहणं चादौ सर्वा लब्धयः |साकारोपयोग (गोप) युक्तस्य भवन्तीति ज्ञापनार्थमिति । एते च कैश्चित्तत्वतः खल्वव्यावृत्तच्छद्मान एवेष्यन्ते, यदाहुः "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥ १ ॥ तथा-दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः खयं कृतभवश्च परार्थशूरः,IN त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥१॥” इति, तन्निवृत्त्यर्थमाह-व्यावृत्तच्छद्मभ्यः' छादयतीति च्छद्म ज्ञानावरणाद्घिातिकर्म तद्वन्धयोग्यतालक्षणो भवाधिकारश्च, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाक्षीणे संसारे अपवर्गः, क्षीणे जन्मपरिग्रह इत्यसत्, हेत्वभावात्, न च तीर्थनिकारजन्मा पराभवो हेतुः, तेषां मोहाभावात् , मोहे वा अपवर्ग इति प्रलापमात्रम् । एवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्म दि तया च स्तोतव्यसम्पद् एव सकारणा स्वरूपसम्पत् । एते च कल्पिताविद्यावादिभिः परमार्थेनाजिनादयः घ. सं. २६४ Jan Education inte For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy