________________
धर्म
॥ १५० ॥
तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते, 'विज्ञप्ति' रित्यन्ये, पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोदितस्या| स्याभावात् । एते च यथोत्तरं पूर्वपूर्वफलभूताः, तथाहि अभयफलं चक्षुः, चक्षुः फलं मार्गी, मार्गफलं शरणं, शरणफलं बोधिः, सा च भगवद्भ्य एव भवतीति बोधं ददतीति बोधिदाः । एवमभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानेभ्य एव यथोदितोपयोगसिद्धेरुपयोगसम्पद् एव हेतुसम्पदुक्ता । साम्प्रतं स्तोतव्यसम्पद एवं विशेषेणोपयोगसम्पदुच्यते “धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं" "धर्मदेभ्यः' इह धर्मश्चारित्रधर्मो गृह्यते, स च यतिश्रावकसम्बन्धिभेदेन देधा, यतिधर्मः सर्वसावद्ययोगविरतिलक्षणः, श्रावकधर्मस्तु देशविरतिरूपः स चायमुभयरूपोऽपि भगवद्भ्य एव, हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्वादिति धर्म ददतीति धर्मदाः । धर्मदत्वं च धर्मदेशनाद्वारेजैव भवति नान्यथेत्याह- 'धर्मदेशकेभ्यः' धर्म प्रस्तुतं यथा भव्यमवन्ध्यतया देशयन्तीति धर्मदेशकाः । तथा 'धर्मनायकेभ्यः' धर्मोऽधिकृत एव तस्य नायकाः खामिनस्तद्वशीकरणभावात् तदुत्कर्षावासेस्तत्प्रकृष्टफलभोगात् तद्विधानानु (मुपपत्तेश्च । 'धर्मसारथिभ्यः' प्रस्तुतस्य धर्मस्य खपरापेक्षया सम्यक्प्रवर्त्त नपाल नदमनयोगतः सारथ्यो धर्मसारथयः । तथा 'धर्मवरचातुरन्तचक्रवर्त्तिभ्यः' धर्मः प्रस्तुत एव, त्रिकोटिपरिशुद्धत्वेन सुगतादिप्रणीतधर्म चक्रापेक्षया उभयलोकहितत्वेन चक्रवर्त्त्यादिचत्रापेक्षया च वरं प्रधानं, चतसृणां गतीनां नारकतिर्यग्नरामरलक्षणानामन्तो यस्मात् तच्चतुरन्तं, चक्रमिव चक्रं रौद्रमिध्यात्वादिभावशत्रुलवनात्, ते
Jain Education International
For Private & Personal Use Only
संग्रह.
।। १५० ।।
www.jainelibrary.org