SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 9 - 6 C- ष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूतं, धृतिरित्यन्ये, तदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्तियुक्तत्वात्सर्वथा परार्थकारित्वाद्भगवन्त एव ददतीत्यभयदास्तेभ्यः। तथा 'चक्षुद्देभ्यः' इह चक्षुर्विशिष्टमात्मधर्मरूपं तत्त्वावबोधनिबन्धनं गृह्यते, तच श्रद्धेत्यपरे, तद्विहीनस्याचक्षुष्मत इव वस्तुतत्त्वदर्शनायोगात्, न च मार्गानुसारिणी श्रद्धा सुखेन अवाप्यते, सत्यां चास्यां कल्याणचक्षुषीव भवति वस्तुतत्त्वदर्शनं, तदियं धर्मकल्पद्रुमस्यावन्ध्यबीजभूता भगवद्भय एव भवतीति चक्षुर्ददतीति चक्षुर्दाः । तथा 'मार्गदेभ्यः' इह मार्गों भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषः, 'हेतुखरूपफलशुद्धा सुखे'त्यन्ये, अस्मिन्नसति न यथोचितगुणस्थानावाप्तिः, मार्गविषमतया चेतःस्खलनेन प्रतिबन्धोपपत्तेः, मार्गश्च भगवद्भय एवेति मार्ग तीति मार्गदाः । तथा 'शरणदेभ्यः' इह शरणं भयार्त्तत्राणं, तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां दुःखपरम्परासक्लेशविक्षोभतः समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं, 'विविदित्यन्ये, अस्मिंश्च सति तत्त्वगोचराः शुश्रूषाश्रवणग्रहणधारणाविज्ञानेहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणा भवन्ति, तत्त्वचिन्तामन्तरेण तेषामभावात्, संभवन्ति तामन्तरेणापि तदाभासाः, न पुनः खार्थसाधकत्वेन भावसाराः, तत्त्वचिन्तारूपं च शरणं भगवद्भ्यः एव भवतीति शरणं दतीति शरणदाः । तथा 'बोधिदेभ्यः' इह बोधिर्जिनप्रणीतधर्मप्राप्तिः, इयं पुनः यथाप्रवृत्तापूर्वानिवृत्तिकरजाणत्रयव्यापाराभिव्यङ्गयमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्त्या प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं Jain Education a l For Private & Personel Use Only Law.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy