SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ -CMC संग्रह. धर्म- धानादिना संविभक्तो रागायुपद्रवेभ्यो रक्षणीयो विशिष्टो भव्यलोकः परिगृह्यते, अस्मिन्नेव नाथत्वोपपत्तेः, हयोगक्षेमकृन्नाथः' इति वचनात् । तदिह येषामेव बीजाधानोड्दपोषणैयोगः क्षेमश्च तत्तदुपद्रवाधभावेन ॥१४९॥ त एवेह भव्या लोकशब्देन गृह्यन्ते । न चैते योगक्षेमे सकलभव्यसत्त्वविषये कस्यचित्सम्भवतः, सर्वेषां मुक्तिप्रसङ्गात्, तस्मादुक्तस्यैव लोकस्य नाथा इति । तथा 'लोकहितेभ्यः' इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नः प्राणिवों गृह्यते, तस्मै सम्यग्दर्शनप्ररूपणरक्षणयोगेन हिताः। 'लोकप्रदीपेभ्यः' अत्र लोकशब्देन विशिष्ट एव तद्देशनाद्यंशुभिर्मिथ्यात्वतमोऽपनयनेन यथार्ह प्रकाशितज्ञेयभावः संज्ञिलोकः परिगृह्यते, तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः, न ह्यन्धं प्रति प्रदीपनं प्रदीपो नाम, तदेवंविधं लोकं प्रति प्रदीपा हैलोकप्रदीपाः । तथा 'लोकप्रद्योतकरेभ्यः' इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते, तत्रैव तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योत्यं च सप्तप्रकारं जीवादिवस्तुतत्त्वं, तत्प्रद्योतकरणं च विशिष्टानामेव पूर्वविदां भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, नच तेषां सर्वेषामेव प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टा तत्त्वसंवेदनयोग्यता, सा च विशिष्टानामेव भवति, तेन विशिष्टचतुर्दशपूर्वविल्लोकापेक्षया प्रद्योतकराः। एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणात् स्तोतव्यसम्पदः सामान्यनोपयोगसम्पच्चतुर्थी । इदानीमुपयोगसम्पद् एव हेतुसम्पदुच्यते-"अभयदयाणं चक्खुयाणं मग्गयाणं सरणयाणं बोहिदयाणं", इह भयं सप्तधा, इहपरलोकादानाकस्मादाजीवमरणाश्लाघाभेदेन, एतत्प्रतिपक्षतोऽभयं विशि-! -CGMCN-SCRECX CLICCCCCEARS १४९॥ Jain Education For Private Personal use only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy