________________
Jain Education
षसम्भव इति । यदि तु विजातीयोपमायोगे तद्धर्मापत्तिरापाद्यते तर्हि सिंहादिसजातीयोपमायोगे तद्धर्माणां पशुत्वादीनामप्यापत्तिः स्यादिति । एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरुविनेयैर्हीनगुणोपमायोग एवाधिकगुणोपमार्हा इष्यन्ते, अभिधानक्रमाभावेऽभिधेयमपि तथा 'अक्रमवदसदिति' वचनाद्, एतन्निरासायाह - 'पुरुषवरगन्धहस्तिभ्यः पुरुषा वरगन्धहस्तिन इव गजेन्द्रा इव क्षुद्रगजनिराकरणादिना धर्मसाम्येन पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रशेषगजा भज्यन्ते, तद्वदीति परचऋदुर्भिक्षमारिप्रभृतयः सर्व एवोपद्रवगजा अचिन्त्यपुण्यानुभावतो भगवद्विहारपवनगन्धादेव भज्यन्त इति । न चैवमभिधानक्रमाभावे अभिधेयमक्रमवदसदिति वाच्यं सर्वगुणानामेकत्रान्योऽन्य संवलितत्वेनावस्थानात्, , तेषां तु यथारुचिस्तोत्राभिधाने न दोषः । एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव सामाअन्येनोपयोगसम्पदमाह - "लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं” समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधाऽवयवेष्वपि प्रवर्त्तन्त इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पञ्चास्तिकाया उच्यन्ते, “धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं लोकास्य ॥ १ ॥” मितिवचनात्, तथापीह लोकशब्देन भव्यसत्त्वलोक एव परिगृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः, अन्यथाऽभत्र्यापेक्षया सर्वभव्यानामप्युत्तमत्वान्नैषामतिशय उक्तः स्यात् । ततश्च भव्य सत्त्वलोकस्य सकलक - ल्याणनिबन्धनतथा भव्यत्वभावेनोत्तमाः लोकोत्तमास्तेभ्यः । तथा 'लोकनाथेभ्यः' इह लोकशब्देन बीजा
For Private & Personal Use Only
w.jainelibrary.org