________________
धर्म
संग्रह.
॥१४८॥
भविष्यन्तीति तत् प्रत्युक्तम् । एतेऽपि बाह्यार्थसत्त्वादिसत्य(सद्भाव)वादिभिः संस्कृताचार्यशिष्यनिरुपमानस्तवाही एवेष्यन्ते 'हीनाधिकाभ्यामुपमा मृषेतिवचनात्, तद्व्यवच्छेदार्थमाह-पुरुषसिंहेभ्यः' पुरुषाः, सिंहा इव प्रधानशौर्यादिगुणभावेन पुरुषसिंहाः, यथा सिंहाः शौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया, तदुच्छेदं प्रति क्रूरतया, क्रोधादीन् प्रत्यसहनतया, रागादीन् प्रति वीर्ययोगेन, तपाकर्म प्रति धीरतया ख्याताः । तथा एषामवज्ञा परीषहेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपीन्द्रियवर्ग, न खेदः सँयमाध्वनि, निष्पकम्पता सद्ध्याने । न चैवमुपमा मृषा, तद्वारेण तदसाधारणगुणाभिधानादिति । एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते, विजातीयेनोपमायां तत्सदृशधमीपत्त्या पुरुषत्वाद्यभावप्राप्तिः, यदाहुस्ते-"विरुद्धोपमायोगे तद्धर्मापत्त्या तवस्तुत्व"मिति, तद्व्यपोहायाह'पुरुषवरपुण्डरीकेभ्यः' पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि तेभ्यः, यथा हि पुण्डरीकाणि पङ्के जातानि जले वर्धितानि तदुभयं विहायोपरि वर्तन्ते, प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्याः , आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यगनरामरैः
सेव्यन्ते, सुखहेतवो भवन्ति । तथैतेऽपि भगवन्तः कर्मपङ्के जाताः, दिव्यभोगजलेन वर्धिता, उभयं विहाय नवर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवः परमानन्दस्य, केवलादिगुणभावेन भव्यसत्त्वैः
सेव्यन्ते, निर्वाणनिबन्धनं च जायन्त इति । नैवं भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदो
॥१४८॥
in Education International
For Private & Personel Use Only
www.jainelibrary.org