________________
तीर्थ, तच प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्कराः, न चाकृत्लक्षये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात्, एवं च ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थङ्करत्वमस्माभिरपि नेष्यते । एतेऽपि सदाशिवानुग्रहात्कैश्चिद्वोधवन्त इष्यन्ते, यदाहु:'महेशानुग्रहाद्वोधनियमाविति' तन्निराकरणार्थमाह-खयंसंबुद्धेभ्यः' स्वयम्-आत्मना तथाभव्यत्वादिसामग्रीपरिपाकान्न तु परोपदेशात् सम्यग्-अविपर्ययेण बुद्धा-अवगततत्त्वाः स्वयंसंबुद्धाः, तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुतनिधानायत्तावबोधास्ते अभूवन, तथापि तीर्थङ्करजन्मनि परोपदेशनिरपेक्षा एव वुद्धाः। यद्यपि |च तीर्थकरजन्मन्यपि लोकान्तिकत्रिदशवचनात् 'भयवं! तित्थं पवत्तेहि इत्येवंलक्षणाद्दीक्षां प्रतिपद्यन्ते,
तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयात्रावत् स्वयमेव प्रव्रज्यां प्रतिपद्यन्ते । इदानी स्तोतव्यसम्पद |एव हेतुविशेषसम्पदुच्यते-"पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं" पुरि शरीरे शयनात्पुरुषा विशिष्टकर्मोद्यादिशिष्टसंस्थानवच्छरीरवासिनः सत्त्वास्तेषामुत्तमाः सहजतथाभव्यत्वादिभावतः श्रेष्ठाः पुरुषोत्तमाः । तथाहि-आसंसारमेते परार्थव्यसनिन उपसर्जनीकृतखार्था उचितक्रियावन्तोऽदीनभावाः सफलारम्भिणो दृढानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिनो गम्भीराशया इति । न खल्वसमारचितमपि जात्यं रत्नं समानमितरेण, न च समारचितोऽपि काचादिर्जात्यरत्नीभवति, एवं च यदाहुः सौगताः-'नास्तीह कश्चिदभाजनं सत्त्वः' इति सर्वे बुद्धा
For Private Personal Use Only
T
Jain Education
ainelibrary.org
ला