________________
धर्म॥ १४७ ॥
Jain Education Int
भेदा इति भावात्संपरिग्रहार्थमाह- 'भगवद्भ्यः' इति, तत्र भगः समग्रैश्वर्यादिलक्षणः, उक्तं च- "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ १ ॥" समग्रं चैश्वर्य भक्तिनतया त्रिदशपतिभिः शुभानुबन्धिमहाप्रातिहार्यकरणलक्षणं, रूपं पुनः सकल सुरखप्रभावविनिर्मिताङ्गुष्ठरूपाङ्गारनिदर्शनातिशयसिद्ध, यशस्तु रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थं त्रैलोक्यानन्दकार्याकालप्रतिष्ठं, श्रीः पुनर्धातिकर्मोच्छेदविक्रमावाप्त केवलालोकनिरतिशय सुखसम्पत्समन्विता परा, धर्मस्तु सम्यग्दर्शनादिरूपो दानशीलतपोभावनामयः साश्रवानाश्रवो महायोगात्मकः, प्रयत्नः पुनः परमवीर्यसमुत्थ एकरा - त्रिक्यादिमहाप्रतिमाभावहेतुः समुद्घातशैलेश्यवस्थाव्यङ्गयः समग्र इति । अयमेवंभूतो भगो विद्यते येषां ते भगवन्तः, तेभ्यो भगवद्भ्यो नमोऽस्त्विति, एवं सर्वत्र क्रिया योजनीया । तदेवंभूता एव प्रेक्षावतां | स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते " आइगराणं तित्थगराणं सयंसंबुद्धाणं" आदिकरणशीलाः आदिकरणहेतवो वा आदिकराः, सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद्गम्यते, तेभ्यः, यद्यप्येषा द्वादशाङ्गी न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति अभूच भवति च भविष्यति चेतिवचनात् नित्या द्वादशाङ्गी, तथाप्यर्थापेक्षया नित्यत्वं, शब्दापेक्षया तु स्वखतीर्थे श्रुतधर्मादिकरत्वमविरुद्धम् । एतेऽपि कैवल्यावास्यनन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते 'अकृत्लक्षये कैवल्याभावा' दितिवचनादिति, तद्व्यपोहार्थमाह- 'तीर्थकरेभ्यः' तीर्यते संसारसमुद्रोऽनेनेति
For Private & Personal Use Only
संग्रह.
॥ १४७ ॥
www.jainelibrary.org