________________
जामर्हन्तीत्यर्हन्तः, यदाहु:-"अरिहंति वंदणनमंसणाइ अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वुचंति ॥१॥” तथा अरिहननादहन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां हननादहन्तः । तथा रजोहननादर्हन्तः, रजश्च घातिकर्मचतुष्टयं, येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणखभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवखत इव तद्गुणानामभिव्यक्तिर्न भवति, तस्य हननादहन्तः। तथा रहस्याभावादहन्तः, तथाहि-भगवतां निरस्तनिरवशेषज्ञा-18 नावरणादिकर्मपारतव्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं युगपत्मत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद्रहस्याभावादहन्तः । एषु विष्वर्थेषु पृषोदरादित्वादर्हदिति सिध्यति, 'अरिहन्ताण मिति पाठान्तरं वा, तत्र कर्मारिहन्तृभ्यः, आह च-'अट्टविहंपि हु कम्मं, अरिभूयं होइ सयलजीवाणं । तं कम्मं अरि हता, अरिहंता तेण वुच्चंति ॥ १ ॥” 'अरुहंताण'मित्यपि पाठान्तरं, तत्र अरोहङ्ग्यः-अनुपजायमानेभ्यः क्षीणकर्मबीजत्वात्, उक्तं च-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः। कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः॥ १ ॥” शाब्दिकास्तु अर्हच्छब्दस्यैव प्राकृते रूपत्रयमिच्छन्ति, यदृचुहेमसूरयः "उच्चाहति" [श्रीसि०८-२-१११] चकारादितावपि, तेभ्योऽहन्यो नमोऽस्त्विति, नमःशब्द
योगाच्चतुर्थी, चतुर्थ्याः षष्ठीति [श्रीसि०८-३-१३१] प्राकृतसूत्राचतुर्थ्याः स्थाने षष्ठी, बहुवचनं चाद्वैतव्यदवच्छेदेनाहहहुत्वख्यापनार्थ, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थ च । एते चाहन्तो नामाद्यनेक
OCALCCCCCCESSARYANA
JainEducation.in
For Private Personel Use Only
Trainelibrary.oro