________________
-
-
ALSEXGANGRESSESCOCALCIEOCOMSAK
उक्तं च व्यवहारभाष्ये-"आयरियग्गहणेणं, तित्थयरो इत्थ होइ गहिओ अ । किं न भवइ आयरिओ। आयारं उवदिसंतो य? ॥१॥ निदरिसणमित्थ जह खंदएण पुट्ठो य गोयमो भयवं!। केण तुहं सिट्ठति य, धम्मायरिएण पच्चाह ॥ २ ॥ स जिणो जिणाइसयओ १, सो चेव गुरू गुरूवएसाओ २। करणाईविणयणाओ, सो चेव मओ उ उज्झाओ॥३॥"त्ति, तथा "एवं स्कन्दकसाधुपुङ्गवपुरः श्रीगौतमेनोदिताः, श्रुत्वाऽर्हद्गुरुतादिसर्वपदवीः श्रीवर्द्धमानप्रभोः। बुध्यध्वं भविकाः ! स्फुटं तदरि(रु)हडिम्बेष्वपि स्थापनाचार्यत्वादि हा तथा क्षमाश्रमणकैः कार्यों विधिस्तत्पुरः॥ १ ॥” एवं साक्षात्समासन्नभावाचार्यासद्भावे क्षमाश्रमणपूर्व जिनबिम्बाद्यापृच्छय ईर्यापथिकी प्रतिक्रमणीया, नतु तदिनापि, यदागमः-"गुरुविरहंमि य ठवणा, गुरूवएसोचदंसणत्थं चेत्यादि सङ्घाचारवृत्तौ ईर्यासम्पदधिकारे । जघन्यमध्यमे तु चैत्यवन्दने ईयापथिकीप्रतिक्रमणमन्तरेणापि भवत इति । उत्कृष्टया वन्दनया वन्दितुकामो विरतः साधुः श्रावकश्चाविरतसम्यग्दृष्टिरपुनबन्धको वा यथाभद्रकोऽपि यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चको मुदश्रुपूर्णलोचनोऽतिदुर्लभं भगवत्पावन्दनमिति बहुमन्यमानो महावृत्तानर्थयुक्तानपुनरुक्तान्नमस्कारान् भणित्वा योगमुद्रयाऽस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भ प्रणिपातदण्डकं पठति, [अत्र च सङ्घाचारवृत्त्युक्तोऽयं विशेषः–एको द्वौ यावदुत्कर्षतोऽष्टोत्तरं शतं यथाशक्ति भणित्वा पश्चाद्यथाविधि प्रागुक्तखरूपं प्रणिपातं कुर्यात्, तथा चागमः "पयत्तेण धूवं दाऊण जिणवराणं,
Jain Education in
For Private & Personel Use Only
Garjainelibrary.org