SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ धर्म- ॥१४५॥ MARTAMITTHIRA (NCREACREGACROCESCENGALOCAC शबरीवत् गुह्याने करौ कृत्वा ५, वधूववनतोत्तमाङ्गः ६, निगडितवचरणौ विस्तार्य मेलयित्वा वा ७, नाभे-16 संग्रह. रुपरि जानुनोरधश्च प्रलम्बमानवसनः ८, दंशादिरक्षार्थमज्ञानाद्वा हृदयं प्रच्छाद्य ९, शकटोर्द्धिवदङ्गष्टौ पाणी वा मीलयित्वा १०, संयतीवत्प्रावृत्य ११, कविकवद्रजोहरणमग्रतः कृत्वा १२, वायसवच्चक्षुर्गोलको भ्रमयन् १३, कपित्थवत्परिधानं पिण्डयित्वा १४, यक्षाविष्ट इव शिरः कम्पयन् १५, मूकवत् हूहूकरणं १६, आलापकगणनार्थमङ्गुली ध्रुवौ वा चालयन् १७, वारुणी-सुरा तद्वत् वुडबुडयन् १८, अनुप्रेक्षमाणो वानर इव ओष्ठपुटं चालयंश्च कायोत्सर्ग करोतीत्येकोनविंशतिः १९ । सूत्रे सर्वमप्यनुष्ठानं साधुमुद्दिश्योक्तमतस्तद्विशेषमाह 'नाहित्ति' नाभेरधश्चत्वार्यङ्गुलानि चोलपट्टः, 'करयल'त्ति दक्षिणोत्तरपाणिभ्यां मुखवस्त्रिका रजोहरणं च 'कुप्पर त्ति कूपराभ्यां चोलपट्टश्च धरणीयः, 'उस्सारियपारियंमि थुईत्ति उत्सारिते पूरितेकायोत्सर्गे नमस्कारेण पारिते जिनस्तुतिर्भणनीया, पाठान्तरं 'एगुणवीसा दोसा, काउस्सग्गस्स वजिजा' इति सुबोधं चैतदिति गाथार्थः । सम्पूर्णकायोत्सर्गश्च 'नमो अरिहंताण मितिनमस्कारपूर्वकं पारयित्वा चतुर्विंशतिस्तवं सम्पूर्ण पठति । एवं सन्निहिते गुरौ तत्समक्षं गुरुविरहे तु गुरुस्थापनां मनसिकृत्य ईर्यापथिकीप्रतिक्रमणं निवर्त्य चैत्यवन्दनमुत्कृष्टमारभते । अत्र चैवं बृहद्भाष्योक्तो विधिः “संनिहिअं भावगुरुं, आपुच्छित्ता खमासमणपुव्वं । इरि पडिकमिजा, ठवणाजिणसक्खिअं इहरा ॥ १ ॥” नतु जिनबिम्बस्यापि ॥१४५॥ पुरतः स्थापनाचार्यः स्थापनीयो, यतस्तीर्थकरे सर्वपदभणनात् तद्विम्बेऽपि सर्वपदस्थापनाऽवसीयते एव, IMERITRUPERHाता Jan Education international For Private Personal Use Only ainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy