________________
मार्जारमूषकादेः पुरतो गमने अग्रतः सरतोऽपि, चौरसम्भ्रमे राजसम्भ्रमे वा सर्पदष्टे आत्मनि परे वा साध्वादौ अपूर्णमपि कायोत्सर्ग पारयतोऽपि न भङ्गः, यदाहुः-"अगणीओ छिंदिज व, बोहीखोभो य दीहडको वा । आगारोहिँ अभग्गो, उस्सग्गो एवमाईहिं ॥ १ ॥"एतैः 'अभग्नः' सर्वथा अखण्डितः 'अविराधितों देशतोऽप्यविनाशितो 'भवेन्मम कायोत्सर्गः' कियन्तं कालं यावदित्याह-'जावेत्यादि' यावदहतां भगवतां नमस्कारेण 'नमो अरिहंताण'मित्यनेन 'न पारयामि' नपारं गच्छामि । तावत्किमित्याह-'तावेत्यादि तावन्तं कालं 'कार्य' देहं 'स्थानेन'ऊर्ध्वस्थानादिना 'मौनेन' वाग्निरोधेन 'ध्यानेन' मनःसुप्रणिधानेन 'अप्पाणं'ति आर्षवादात्मीयं कायं 'व्युत्सृजामि' कुव्यापारनिषेधेन त्यजामि । अयमर्थ:-पञ्चविंशत्युच्छ्वासमानं कालं यावदूर्ध्वस्थितः प्रलम्बितभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामि, स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण तु व्युत्सृजामि । पञ्चविंशतिरुच्छासाश्चतुर्विशतिस्तवेन 'चंदेसु निम्मलयरा' इत्यन्तेन चिन्तितेन पूर्यन्ते, 'पायसमा ऊसासा' इति वचनात् । साम्प्रतं कायोत्सर्गस्य दोषवर्जनाय गाथाद्वयमिदम्-"घोडग १ लया २ य खंभे, कुड्ढे ३ माले ४ य सबरि ५ वहु ६ नियले ७। लंबुत्तर८ थण ९ उड्डी १०, संजइ ११ खलिणे १२ य वायस १३ कविढे १४ ॥१॥ सीसोकंपिय १५ मूए १६, अंगुलि भमुहा १७ य वारुणी १८ पेहा १९ । नाहीकरयलकुप्पर, उस्सारियपारियंमि थुई ॥२॥” अश्ववद्विषमपादः १, वाताहतलतावत् कम्पमानः २, स्तम्भे कुड्ये वाऽवष्टश्य ३, माले चोत्तमा निधाय ४, अवसन
+MRORSHASANGRESEANING
१ लयासमा जसा, पञ्चविंशति
ध, सं. २५
Jain Education
For Private & Personel Use Only
ainelibrary.org