________________
Jain Education Int
स्सा तिसयचाला ॥ ८ ॥ कालतिगेणं गुणिआ, तिलक्खचउसहस वीस अहिआ य । अरिहंत सिद्धसाहूदेवगुरुअप्पसक्खीहिं ॥ ९ ॥ अट्ठारस लक्खाई, चडवीससहस्स एग वीसहिआ । इरिआमिच्छादुक्कडपमाणमेवं सुए भणिअं ॥ १० ॥" अस्यां च विश्रामाष्टकोल्लिङ्गनपदानि - 'इच्छा गर्म पाण ओसा, जेमे एगिंदि अभिया तस्स । अड संपय बत्तीसं, पयाइँ वण्णाण सहसयं ॥ १ ॥ । एवमालोचनाप्रतिक्रमणरूपं द्विविधं प्रायश्चित्तं प्रतिपाद्य कायोत्सर्गलक्षणप्रायश्चित्तेन पुनरात्मशुद्ध्यर्थमिदं पठति - "तस्स उत्तरीकरणेणमित्यादि ठामि काउस्सग्ग" मिति पर्यन्तं, तस्य- आलोचितप्रतिक्रान्तस्यातिचारस्योत्तरीकरणादिना हेतुना 'ठामि काउ स्वग्ग' मिति योगः । तत्रानुत्तरस्योत्तरस्य करणं पुनः संस्कारद्वारेणोपरिकरणमुत्तरीकरणं, अयं भावार्थ:यस्यातिचारस्य पूर्वमालोचनादि कृतं, तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणं, तच प्रायश्चित्त करणेन | स्यादित्याह 'पायच्छित्तकरणेणं' प्रायो-बाहुल्येन चित्तं जीवं मनो वा शोधयति पापं छिनत्तीति वाऽऽर्षत्वात्प्रायश्चित्तं तस्य करणेन हेतुना, तच्च विशुद्ध्या स्यादित्याह - 'विसोहीकरणेणं' विशोधनं विशोधिरतिचारापगमादात्मनो नैर्मल्यं तस्याः करणेन हेतुना, तदपि विशल्यत्वे सति स्यादित्याह - 'विसल्ली करणेणं' विगतानि शल्यानि मायादीनि यस्यासौ विशल्यः, अविशल्यस्य विशल्यस्य करणं विशल्यीकरणं तेन हेतुना, किमित्याह - 'पावाणं कम्माणं निग्धायणढाए' पापानां भवहेतूनां कर्मणां ज्ञानावरणादीनां
१ इच्छा इरि गम पाणा इति चैत्यवन्दनभाष्यम् ।
For Private & Personal Use Only
jainelibrary.org