________________
धर्म
॥ १४२ ॥
Jain Education
दिरूपः, तत्र च प्राणातिपातस्यैव गरीयस्त्वं, शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरप्रपञ्चः, सम्पत् १ क सति विराधना ? 'गमणागमणे' गमनं चागमनं चेति समाहारद्वन्द्वस्तस्मिन्, तत्र गमनं स्वस्थानादन्यत्र यानं, आगमनं च तद्व्यत्ययतः, सम्पत् २ । तत्रापि कथं विराधनेत्याह - "पाणकमणे इत्यादि" प्राणिनो-हीन्द्रियादयस्तेषामाक्रमणे-सङ्घट्टने पादेन पीडने, तथा 'बीयकमणे हरियक्कमणे,' बीजाक्रमणे, हरिताक्रमणे, आभ्यां सर्वबीजानां शेषवनस्पतीनां च जीवत्वमाह, सम्पत् ३ । तथा 'ओसाउत्तिंगपणगद्गमट्टी मक्कडासंताणासंकमणे' अवश्यायः त्रेहः, अस्य च ग्रहणं सूक्ष्मस्याप्यपकायस्य परिहार्यत्वख्यापनार्थ, उत्तिङ्गा-भूम्यां वृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा, पनक:- पञ्चवर्णा फुल्लिः, दकमृत्तिका अनुपहतभूमौ चिक्खिलः, यद्वा दकम् - अपकायो मृत्तिकापृथ्वीकायः, मर्कट:- कोलिकस्तस्य सन्तानो-जालकं, ततश्चैषां पदानां इन्द्र:, तेषां सङ्क्रमणे - आक्रमणे, संपत् ४। किं बहुना ? 'जे मे जीवा विराहिया' ये केचन मया जीवा विराधिता -दुःखे स्थापिताः, सम्पत् ५ । ते च के ? इत्याह- 'एगेंदिआ इत्यादि' एकमेव स्पर्शनरूपमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्यादयः, एवं स्पर्श - नरसनोपेता द्वीन्द्रियाः- शङ्खादयः, स्पर्शनरसनघाणयुक्तास्त्रीन्द्रियाः कीटिकादयः, स्पर्शनरसनघ्राणचक्षुःसमन्विताः चतुरिन्द्रिया - वृश्चिकादयः, स्पर्शनरसनघाणचक्षुःश्रोत्रसहिताः पञ्चेन्द्रियाः- नारकतिर्यग्नरामरादयः, सम्पत् ६ । विराधनाप्रकारमाह- 'अभिया इत्यादि' अभिमुखमागच्छन्तो हता अभिहताः पादेन
For Private & Personal Use Only
संग्रह.
॥ १४२ ॥
jainelibrary.org