________________
ACADAMSACSCGOSROSAGAROSTATUS
चेइअवंदणसज्झायावस्सयाइ काउं” इति, अन्या अपि प्रतिक्रमणादिक्रिया एतत्प्रतिक्रमणपूर्विकाः शुद्ध्यन्ति, यतो विवाहचूलिकायाम्-"दिविडिकुसुमसेहर, मुच्चइ दिव्वाहिगारमझंमि । ठवणायरिअं ठविलं, पोसहसालाइ तो सीहो ॥१॥ उम्मुक्कभूसणो सो, इरिआइपुरस्सरं च मुहपुत्तिं । पडिलेहिऊण तत्तो, चउविहं पोसहं कुणइ ॥ १ ॥"त्ति, तथाऽऽवश्यकचूर्णावपि “तत्थ ढड्डरो नाम सावओ सरीरचिंतं काऊण पडिस्सयं वच्चइ, ताहे तेण पूरएण तिन्नि निसीहिआओ कयाओ, एवं सो इरिआई ढड्रेण सरेण करेइ"त्ति, तथा 'ववहारावस्सयमहानिसीहभगवइविवाहचूलासु । पडिकमणचुण्णिमाइसु, पढमं इरिआपडिक्कमणमित्याशुक्तेः । अतः प्रथममीर्यापथिकीसूत्रं व्याख्यायते, तच 'इच्छामि पडिक्कमि'मित्यादि 'तस्स मिच्छामि दुक्कड'मित्यन्तं । तत्र 'इच्छामि पडिक्कमिउं इरिआवहिआए विराहणाए'त्ति इच्छामि-अभिलषामि प्रतिक्रमितु-प्रतीपं क्रमितुं, ईरणमीर्या गमनमित्यर्थः तत्प्रधानः पन्था र्यापथः तत्र भवा ऐर्यापथिकी, विराधना जन्तुबाधा, मार्गे गच्छतां या काचिद्विराधना भवति सा ऐर्यापथिकीत्युच्यते, तस्या ऐयापथिकीविराधनायाः सकाशात् प्रतिक्रमितुमिच्छामीति सम्बन्धः । अस्मिंश्च व्याख्याने ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद्, न तु शयनादेरुत्थितस्य कृतलोचादेर्वा, तस्मादन्यथा व्याख्यायते-ईर्यापथ-साध्वाचारः, यदाह"यापथो ध्यानमौनादिकं भिक्षुव्रतं" तत्र भवा ऐयापथिकी विराधना नद्युत्तरणशयनादिभिः साध्वाचारातिक्रमरूपा तस्या विराधनायाः प्रतिक्रमितुमिच्छामीति सम्बन्धः । साध्वाचारातिक्रमश्च प्राणातिपाता
Jain Education in
For Private & Personel Use Only
Kenjainelibrary.org