SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १३९ ॥ मस्तके दातव्यमित्युक्तं, श्रूयतेऽपि जरासन्धमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराद्धनागेन्द्रात्पातालस्थश्रीपार्श्वप्रतिमां शङ्खेश्वरपुरे आनाय्य तत्स्नपनाम्बुना पटूचक्रे, जिनदेशनासद्मनि नृपाद्यैः प्रक्षिप्तं कूररूपं बलिमर्द्धपतितं देवा गृह्णन्ति तदर्द्धार्द्ध नृपः शेषं तु जनाः, तत्सिक्थेनापि शिरसि क्षिसेन व्याधिरुपशाम्यति, षण्मासांश्चान्यो न स्याद् इत्यागमेऽपि । ततः सद्गुरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो महाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः सर्वैर्यथाशक्ति परिधापनिका च मोच्या । अथारात्रिकं समङ्गलदीपमर्हतः पुरस्तादुद्योत्यं, आसन्नं च वह्निपात्रं स्थाप्यं तत्र लवणं जलं च पातयिष्यते 'उवणेउ मंगलं वो, जिणाण मुहलालिजालसंवलिआ । तित्थपवत्तणसमए, तिअसविमुक्का कुसुमबुट्ठी ॥ १ ॥ | इत्युक्त्वा प्रथमं कुसुमवृष्टिः, ततः “उअह पडिभग्गपसरं, पयाहिणं मुणिवहं करेऊणं । पडइ सलोणत्तणलज्जिअं व लोणं हुअवहंमि ॥ १ ॥" इत्यादिपाठैर्विधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्य, ततः सृष्ट्या पूजयित्वा आरात्रिकं सधूपोत्क्षेपमुभयत उच्चैः सकलशजलधारं परितः श्राद्धैः प्रकीर्यमाणपुष्पप्रकरं " मरगयमणिघडिअविसालधालमाणिक्कमंडिअपईवं । ण्हवणयर करुक्खित्तं, भमउ जिणारत्तिअं तुम्हं ॥ १ ॥" इत्यादिपाठपूर्व प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारं यदुक्तं त्रिषष्टीयादिचरित्रे" कृतकृत्य इवाथापसृत्य किञ्चित्पुरन्दरः । पुरोभूय जगद्भर्त्तुरारात्रिकमुपाददे ॥ १ ॥ चलद्दीपत्विषा तेन, चकासामास कौशिकः । भाखदोषधिचक्रेण शृङ्गेणेव महागिरिः ॥ २ ॥ श्रद्धालुभिः सुरवरैः, प्रकीर्णकु Jain Education International For Private & Personal Use Only संग्रह ॥ १३९ ॥ www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy