SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ संग्रह S - प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भगवता, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्र, भावनीयं महायनेन, प्रवर्तितव्यं विधानतः, अवलम्बनीयं धैर्य, पर्यालोचनीया आयतिः, अवलोकनीयो ॥ १३ ॥ मृत्युः, भवितव्यं परलोकप्रधानेन, सेवितव्यो गुरुजनः, कर्तव्यं योगपटदर्शनं, स्थापनीयं तद्रूपादि चेतसि, |निरूपयितव्या धारणा, परिहर्त्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखहनीयं भुवनेश्वरवचनं,कर्त्तव्योमङ्गलजापः,प्रतिपत्तव्यं चतुःशरणं,गर्हितव्यानि दुष्कृतानि,अनुमोदनीयं कुशलं, पूजनीया मन्त्रदेवताः, श्रोतव्यानि सचेष्टितानि, भावनीयमौदार्य, वर्तितव्यमुत्तमज्ञाने(ते)न। एवंभूतस्य येह प्रवृत्तिः सा सर्वैव साध्वी । मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादिः । तदस्यैवंभूतगुणसम्पदा(दो)भावात् , अत आदित आरभ्यास्य प्रवृत्तिः सत्प्रवृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थकप्रवृत्तिकल्पा, तदेतदधिकृत्याहुः -"कुठारादिप्रवृत्तिरपि रूपनिर्माणप्रवृत्तिरेव," तद्वदादिधार्मिकस्य धर्मे कायेन तद्गामिनी न तद्वाधिनीतिहाईम्, तत्त्वाविरोधकं हृदयमस्य, ततः समन्तभद्रता, तन्मूलत्वात्सकलचेष्टितस्य, एवमतोऽपि विनिर्गतं तत्तद्दर्शनानुसारतः सर्वमिह योज्यं सुप्तमण्डितप्रबोधदर्शनादि । नोवं प्रवर्त्तमानो नेष्टसाधक इति । भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यं । नानिवृत्ताधिकारायां प्रकृतावेवंभूत इति कापिलाः, न अनवाप्तभवविपाक इति च सौगताः, अपुनर्बन्धकास्त्वेवंभूता इति जैना इति । अपुनर्बन्धकलक्षणं चेदं । प्रसङ्गेनात्रावसेयम्, "पावं ण तिव्वभावा, कुणइ ण बहु मन्नई भवं घोरं । उचिअहिहं च सेवइ, सब्वत्थवि SACRORESC-CCE ॥ १३ ॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy