________________
॥१३७॥
ORGANSOLUGARCAUSASARAM
यद्भाष्यम्-"तत्तो निसीहिआए, पविसित्ता मंडवंमि जिणपुरओ । खिइनिहिअजाणुपाणी, करेइ विहिणा पणामतिगं ॥ १ ॥ तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसि, निम्मल्लं लोमहत्थेणं ॥२॥ जिणगिहपमजणं तो, करेइ कारेइ वावि अन्नेणं । जिणबिंबाणं पूअं, तो विहिणा कुणइ जहजोगं ॥ ३ ॥” अत्र च विशेषतः शुद्धगन्धोदकप्रक्षालनकुङ्कममिश्रगोशीर्षचन्दनविलेपनाङ्गीरचनगोरोचनमृगमदादिपत्रभङ्गकरणनानाजातीयपुष्पमालारोपणचीनांशुकवस्त्रपरिधापनकृष्णागुरुमिश्रकर्पूरदहनानेक- 1 दीपोद्योतनखच्छाखण्डाक्षताष्टमङ्गलालेखनविचित्रपुष्पगृहरचनादि विधेयं । यदि च प्राक्केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत्, भव्यानां तद्दर्शनजन्यपुण्यानुबन्धिपुण्यबन्धस्यान्तरायप्रसङ्गात्, किन्तु तामेव विशेषयेद् यद्धृहद्भाष्यम्-"अह पुटिव, चिअ केणइ, हविज पूआ कया सुविहवेणं । तंपि सविसेससोहं, जह होइ तहा तहा कुजा ॥ १ ॥ निम्मलंपि न एवं, भण्णइ निम्मल्ललक्खणाभावा । भोगविणटुं दवं, निम्मल्लं बिति गीअत्था ॥ २॥ इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाहरणाईणं, जुगलिअकुंडलिअमाईणं॥ ३ ॥ कहमन्नह एगाए, कासाईए जिणिंदपडिमाणं । अट्ठसयं लूहंता, विजयाई वण्णिआ समए ॥ ४ ॥" एवं मूलबिम्बसविस्तरपूजानन्तरं सृष्ट्या सर्वापरबिम्बपूजा यथायोगं कार्या, द्वारबिम्बसमवसरणबिम्बपूजापि मुख्यबिम्बपूजाद्यनन्तरं गर्भगृहनिर्गमसमये है कर्त्तव्या संभाव्यते न तु प्रवेशे । प्रणाममात्रं त्वासन्नार्चादीनां पूर्वमपि युक्तमेव, तृतीयोपाङ्गाविसंवादिन्यां
॥१३७॥
Jain Education International
For Private & Personel Use Only
jainelibrary.org