________________
धर्म
संग्रह
॥१३४॥
भेदचतुष्कं । तथा “दुविहा जिणिंदपूआ, व्वे भावे अ तत्थ व्वंमि । व्वेहिं जिणपूआ, जिणआणापालणं भावे ॥१॥” इति भेदवय्यपि । तथा सप्तदशभेदा यथा “ण्हवणविलेवण अंगंमि १, चक्खुजुअलं च वासपूआए २। पुप्फारुहणं ३ मालारुहणं ४ तह वन्नयारुहणं ५ ॥१॥ चुण्णारुहणं जिणपुंगवाण ६ आहरणरोहणं चेव ७ । पुप्फगिह ८ पुप्फपगरो९ आरत्तीमंगलपईवो १० ॥२॥ दीवो ११ धूवुक्खेवो १२, नेवेज़ १३ सुहफलाण ढोअणयं १४ । गीअं १५ नर्से १६ वजं १७, पूआभेआ इमे सतर। ३।" एकविंशतिभेदा- स्त्वनुपदमेव वक्ष्यमाणा ज्ञेयाः, एते सर्वेऽप्यङ्गादिपूजात्रये सर्वव्यापकेऽन्तर्भवन्ति । अङ्गादिपूजात्रयफलं त्वेवमाहुः “विग्धोवसामगेगा, अब्भुदयसाहणी भवे बीआ । निव्वुइकरणी तइआ, फलयाउ जहत्थनामेहिं । ॥१॥ [सात्त्विक्यादिभेदैरपि पूजात्रैविध्यमुक्तं, यतो विचारामृतसंग्रहे “सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादहतो भवेत् ॥ १॥ अर्हत्सम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ॥२॥ अर्हत्सम्बन्धिकार्याथै, सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात्, क्रियते या निरन्तरम् ॥ ३ ॥ भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेभक्तिर्लोकद्वयफलावहा॥४॥ त्रिभिर्विशेषकम् ॥ यदैहिकफलप्राप्तिहेतवे कृतनिश्चया।लोकरञ्जनवृत्त्यर्थ, राजसी भक्तिरुच्यते॥५॥ द्विषदां यत्प्रतीकारभिदे या कृतमत्सरम् । दृढाशयं विधीयेत, सा भक्तिस्तामसी भवेत् ॥६॥ रजस्तमोमयी भक्तिः, सुपापा सर्वदेहिनाम् । दुर्लभा सात्त्विकी भक्तिः, शिवावधिसुखावहा ॥७॥ उत्तमा
॥१३४॥
Jain Education
For Private & Personel Use Only
P
ainelibrary.org