________________
Jain Education
अंकुसग्गेहि अ, जिणस्स भाविज सिद्धन्तं ॥ १ ॥” लापकैः परिकरोपरिघटितगजारूढ करकलित कलशैरमरैरर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत्, छद्मस्थावस्था त्रिधा जन्मावस्था १ राज्यावस्था २ श्रामण्यावस्था ३ च तत्र स्नपनकारैर्जन्मावस्था १ मालाधारे राज्यावस्था २ श्रामण्यावस्था भगवतोऽपगतकेशशीर्षमुखदर्शनात्सुज्ञानैव ३, प्रातिहार्येषु परिकरोपरितन कलशोभयपार्श्वघटितैः पत्रैः कङ्केल्लिः १ मालाधारैः पुष्पवृष्टिः २ वीणावंशकरैः प्रतिमोभयपार्श्ववर्त्तिभिर्दिव्यो ध्वनिः ३ शेषाणि स्फुटान्येव इति भावपूजा ३ । अन्यरीत्याऽपि पूजात्रयं वृहद्भाष्यायुक्तं यथा “पंचोवयारजुत्ता, पूआ अट्ठोवयारकलिआ य । रिडिविसेसेणं पुण, नेआ सव्वोवयारावि ॥ १ ॥ तत्थ य पंचुवयारा, कुसुम १ 5वय २ गंध ३ धूव ४ दीवेहिं ५ ॥ कुसुम १ क्खय २ गंध ३ पईव ४ धूव ५ नेवेज्ज ६ फल ७ जलेहि ८ पुणो । अट्ठविहम्मदलणी, अडुवयारा हवइ पूआ ॥ २ ॥ सव्वोवयारपूआ, ण्हवणच्चणवत्थभूसणाईहिं । फलबलिदी वाईहिं, नहगीआरत्तिआहिंति ॥ ३ ॥” शास्त्रान्तरे चानेकधाऽपि पूजाभेदा उक्ताः सन्ति, तद्यथा "सयमाणयणे पढमा, बीआ आणायणेण अन्नेहिं । तहआ मणसा संपाडणेण वरपुप्फमाईणं ॥ १ ॥” इति कायवाङ्मनोयोगितया करणकारणानुमतिभेदतया च पूजात्रिकं । तथा "पूअंपि पुप्फामिमथुइपडिवत्तिभेअओ चउव्विपि जहासत्तीए कुज्जा" ललितविस्तरादौ तु "पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्य" मित्युक्तं, तत्रामिषमशनादि भोग्यं वस्तु, प्रतिपत्तिः पुनरविकलाप्तोपदेशपरिपालना इत्यागमोक्तं पूजा
For Private & Personal Use Only
jainelibrary.org