________________
ध. सं. २३
Jain Education I
शेषाणां सकृइन्धकादीनां तु भाववन्दनाया अकारणत्वादप्रधानेतिभावः । [ एवं च जघन्याद्येकैकस्या अपि चैत्यवन्दनाया अधिकारित्रयसंभवान्नवधा चैत्यवन्दनेतिज्ञेयं ] इह च केचिन्मन्यन्ते - शक्रस्तवमात्रमेव वन्दनं श्रावकस्य युक्तं, जीवाभिगमादिषु तन्मात्रस्यैव तस्य देवादिभिः कृतत्वेन प्रतिपादितत्वात् ततस्तदाचरितप्रामाण्यात्तदधिकतरस्य च गणधरादिकृतसूत्रेऽनभिधानान्न शक्रस्तवातिरिक्तं तदस्तीति । अत्रोच्यते । यदुक्तमाचरितप्रामाण्यादिति तदयुक्तं यतो यदिदं जीवाभिगमादिसूत्रं तद्विजयदेवादिचरितानुवादपरमेवेति न ततो विधिवादरूपाधिकृतवन्दनोच्छेदः कर्तुं शक्यः, तेषां ह्यविरतत्वात् प्रमत्तत्वाच्च तावदेव तत् युक्तं, तदन्येषां पुनरप्रमादविशेषवतां विशेषभक्तिमतां तदधिकत्वेऽपि न दोषः, यदि पुनराचरितमवलम्ब्य प्रवृत्तिः कार्या तदा वह्नन्यपि कर्त्तव्यं स्याद् विधेयतयाऽङ्गीकृतमपि वज्र्जनीयं स्यादिति । यच्चोक्तम् 'तदधिकतरस्यानभिधानादिति' तदयुक्तं, “तिषिण वा कढई जाव, थुईओ तिसिलोइआ" इत्यादिव्यवहार भाष्यवचनश्रवणात्, साध्वपेक्षया तदिति चेन्मैवं, साधुश्रावकयोदर्शनशुद्धेः कर्त्तव्यत्वाद्, दर्शनशुद्धिनिमित्तत्वाच्च वन्दनस्य । तथा संवेगादिकारणत्वादशठसमाचरितत्वाज्जीतलक्षणस्येहोपपद्यमानत्वात् चैत्यवन्दनभाष्यकारादिभिरेतत्करणस्य समर्थितत्वाच्च तदधिकतरमपि नायुक्तमित्यलं प्रसङ्गेन । चैत्यवन्दनाश्च प्रत्यहं सप्त महानिशीथे साधोः प्रोक्ताः, श्राद्धस्याप्युत्कर्षतः सप्त, यद्भाष्यम् "पडिकमणे १ चेइअ २ जिमण ३ चरिम ४ पडिक्कमण ५ सुअण ६ पडिबोहे ७ । चिइवंदण इअ जइणो, सत्त उ वेला अहोरन्ते ॥ १ ॥ पडिकमिणो (मओ)
For Private & Personal Use Only
www.jainelibrary.org