________________
धर्म
संग्रह.
॥१३२॥
गाईणं । सव्वा तिविहा णेआ, सेसाणमिमा ण जं समए ॥ १ ॥ व्याख्या-अथवापीति निपातः पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः, भावभेदात्-परिणामविशेषात् , गुणस्थानकविशेषसम्भवात् , प्रमोद-15 मात्ररूपाडा, वन्दनाधिकारे जीवगता त्रिधा ज्ञेयेति संबन्धः । ओघेन-सामान्येनाविवक्षितपाठक्रियाल्पवादितयेत्यर्थः। केषामित्याह-'अपुनर्बन्धकादीनां वन्दनाधिकारिणां, तत्रापुनर्बन्धकः-सम्यक्त्वप्राप्तिप्रक्रमे व्याख्यातपूर्वः, आदिशब्दादविरतसम्यग्दृष्टिदेशसर्वविरतग्रहः, सर्वाऽपि-नमस्कारादिभेदेन जघन्यादिनकारापि, आस्तामेका काचिदिति । तत्रापुनर्बन्धकस्य जघन्या तत्परिणामस्य विशुद्ध्यपेक्षया जघन्यत्वादू, अविरतसम्यग्दृष्टेमध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात्, सामान्यविरतस्योत्कृष्टा तत्परिणामस्य तथाविधत्वादेवेति । अथवा पुनर्बन्धकस्यापि त्रिधा प्रमोदरूपभाववैविध्यादेवमितरयोरपीति । अथापुनर्बन्धकादीनामिति कस्मादुक्तं? मार्गाभिमुखादेरपि भावभेदसावादित्यत्राह-शेषाणां अपुनर्बन्धकादिव्यतिरिक्तानां सकृद्वन्धकमार्गाभिमुखमार्गपतिततदितरमिथ्यादृशां 'इम'त्ति इयमधिकृतभावभेदेन भेदवती (अन्या) तु स्यापि, न नैव, यदु-यस्मात् , समये-सिद्धान्ते, भणितेतिशेषः,तेषां तद्योग्यताविकलत्वादिति गाथार्थः"। इत्थं |च भाववन्दनायाः शुद्धद्रव्यवन्दनायाश्चाधिकारिणोऽपि एते त्रय एव, सकृद्धन्धकादीनां तु अशुद्धद्रव्यवन्दनैव, यतस्तत्रैव-"एतेऽहिगारिणो इह, ण उ सेसा दवओ विजं एसा। इअरीऍ जोग्गयाए, सेसाण उ अप्पहाणं ॥१॥ति, कण्ठ्या। नवरं 'इयरीऍत्ति इतरस्या भाववन्दनाया योग्यत्वेन याऽप्रधाना द्रव्यवन्दना साऽधिकारिणां,
Jain Education in
For Private & Personel Use Only
jainelibrary.org