________________
Jain Education I
दण्डकश्च-अरिहन्तचेहयाणमित्यादिश्चैत्यस्तवरूपः, स्तुतिः प्रतीता, या तदन्ते दीयते, तयोर्युगलं-युग्ममेते एव वा युगलं मध्यमा । एतच्च व्याख्यानमिमां कल्पगाथामुपजीव्य कुर्वन्ति, तद्यथा “निस्सकडमनिस्सकडे, वावि चेहए सव्वाहँ थुई तिण्णि । वेलं व चेहआणि व, नाउं एक्किक्किया वावि ॥ १ ॥” यतो दण्डकावसाने एका स्तुतिर्दीयते इति दण्डकस्तुतियुगलं भवति २॥ तथा पञ्चदण्डकैः शक्रस्तव १ चैत्यस्तव २ नामस्तव ३ श्रुतस्तव४ सिद्धस्तवा ५ ख्यैः स्तुतिचतुष्टयेन स्तवनेन जय वीयरायेत्यादिप्रणिधानेन चोत्कृष्टा, इदं च व्याख्यानमेके "तिणि वा कहई जाब, थुईओ तिसिलोइआ । ताव तत्थ अणुण्णायं, कारणेण परेण वा (वि) ॥ १ ॥" इत्येतां कल्पगाथां 'पणिहाणं मुत्तमुत्तीए' इति वचनमाश्रित्य कुर्वन्ति ३ ॥ वन्दनकचूर्णावप्युक्तं "तं च चेइअवंदणं जहन्नमज्झिमुक्कोस भेअओ तिविहं, जओ भणिअं "नवकारेण जहन्ना, दंडगथुइजुअलमज्झिमा णेया । संपुण्णा उक्कोसा, विहिणा खलु वंदना तिविहा ॥ १ ॥" तत्थ नवकारेण एगसिलोगोचारणओ पणामकरणेण जहग्णा, तहा अरिहंतचेइआणमिच्चाइदंडगं भणित्ता काउस्सग्गं पारिता थुई दिजइत्ति दंडगस्स थुइए अ जुअलेणं-दुगेणं मज्झिमा, भणिअं च कप्पे-निस्सकडमनिस्सकडे, वावि चेहए सव्वहिं धुई तिण्णि । वेलं व चेइआणि व, नाउं एक्केकिआ वावि ॥ १ ॥ तहा सक्कत्थयाइदंडगपंचगथुइचउक्कपणिहाणकरणतो संपूण्णा एसा उक्कोसत्ति" । "अन्ने विंति इगेणं, सक्कथएणं जहन्नवंदणया । तद्दुगतिगेण मज्झा, उक्कोसा चउहिँ पंचाहिँ वा ॥ १ ॥" अथवा प्रकारान्तरेण वन्दनात्रैविध्यं यथा पञ्चाशके - " अहवावि भावभेआ, ओघेणं अपुणबंध
For Private & Personal Use Only
jainelibrary.org