________________
धर्म
संग्रह
सर्वमप्येतदग्रपूजैव । यद्भाष्यम् “गंधव्वनवाइअलवणजलारत्तिआइ दीवाई। किच्चं तं सव्वंपि, ओअ
रई अग्गपूआए ॥१॥” इत्यग्रपूजा २॥ भावपूजा तु जिनपूजाव्यापारनिषेधरूपतृतीयनैषेधिकीकरणपूर्व ॥१३१॥
जिनाद्दक्षिणदिशि पुमान् स्त्री तु वामदिशि आशातनापरिहारार्थ जघन्यतोऽपि संभवे नवहस्तमानादसंभवे तु हस्तार्द्धमानाद् उत्कृष्टतस्तु षष्टिहस्तमानावग्रहाद्वहिः स्थित्वा चैत्यवन्दनां विशिष्टस्तुत्यादिभिः ।
कुर्यात्, आह च "तइआ उ भावपूआ, ठाउं चिइवंदणोचिए देसे । जहसत्ति चित्तथुइथुत्तमाइणा देववंदभणयं ॥१॥” निशीथेऽपि “सो उ गंधारसावओ थयथुईहि थुणंतो तत्थ गिरिगुहाए अहोरत्तं निवसिओ"
तथा वसुदेवहिण्डौ-वसुदेवो पञ्चूसे कयसमत्तसावयसामाइआइनिअमो गहिअपचक्खाणो कयकाउस्सग्गथइवंदणो"त्ति । एवमनेकन श्रावकादिभिरपि कायोत्सर्गस्तुत्यादिभिश्चैत्यवन्दना कृतेत्युक्तं । सा च जघन्यादिभेदात्रिधा, यतो भाष्यम्-"नवकारेण जहन्ना, चिइवंदण मज्झ दंडथुइजुअला । पणदंडथुइचउक्कगथयपणिहाणेहिं उक्कोसा ॥ १ ॥" व्याख्या-नमस्कारेण-अञ्जलिबन्धशिरोनमनादिलक्षणप्रणाममात्रेण, यहा
नमो अरिहंताणमित्यादिना, अथवैकश्लोकादिरूपनमस्कारपाठपूर्वकनमस्क्रियालक्षणेन करणभूतेन, जातिनि। देशाहुभिरपि नमस्कारैः क्रियमाणा जघन्या-खल्पा, पाठक्रिययोरल्पत्वात्, वन्दना भवतीति गम्यं । तत्र प्रणामश्च पञ्चधा "एकाङ्गः शिरसो नामे, स्याद्व्यङ्गः करयोईयोः । त्रयाणां नामने व्यङ्गः, करयोः शिरसस्तथा ॥१॥ चतुर्णा करयोर्जान्वोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः, पञ्चाङ्गः पञ्चनामने ॥२॥” इति १॥ तथा
-CONGOLICEMALLACESS
॥१३
॥
0259-2201
Jan Education in
For Private
Personel Use Only
www.jainelibrary.org