________________
Jain Education Inte
सर्वमङ्गपूजायामन्तर्भवति, तथोक्तं बृहद्भाष्ये - " ण्हवणविलेवणआहरणवत्थफलगंधधूवपुप्फेहिं । कीरइ जिणंगपूआ, तत्थ विही एस नायव्वो ॥ १ ॥ न्ति । तत्र धूपो जिनस्य वामपार्श्वे कार्य इत्यङ्गपूजा १ ॥ ततो घृतपूर्णम्दीपैः शाल्यादितन्दुलाक्षतैर्बीज पुरादिनानाफलैः सर्वनैवेद्यैर्निर्मलोकभृतशङ्खादिपाचैश्च पूजयेत्, तत्र प्रदीपो जिनस्य दक्षिणपार्श्वे स्थाप्यः, अक्षतैश्चाखण्डै रौप्यसौवर्णैः शालेयैव जिनपुरतो दर्पण १ भद्रासन २ वर्द्धमान ३ श्रीवत्स ४ मत्स्ययुग्म ५ स्वस्तिक ६ कुम्भ ७ नन्दावर्त्त ८ रूपाष्टमङ्गलानालेखयेत्, अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं सृष्ट्या पुञ्जत्रयेण पादौ विशिष्टाक्षतान् पूगादिफलं च ढोकयेत्, नवीनफलागमे तु पूर्व जिनस्य पुरतः सर्वथा ढौक्यं, नैवेद्यमपि सति सामर्थ्य कूराद्यशन १ शर्करागुडादिपान २ फलादिखाय ३ ताम्बूलादिखाद्यान् ४ ढोकयेत्, नैवेद्यपूजा च प्रत्यहमपि सुकरा महाफला च, धान्यस्य च विशिष्य, आगमेऽपि राद्धधान्यस्यैव प्रतिपादनायत आवश्यकनिर्युक्तौ समवसरणाधिकारे - "कीरइ बली”ति, निशीथेऽपि - "तओ पभावईदेवीए सव्वं बलिमाद काउं भणिअं 'देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरउत्ति' वाहिओ कुहाडो, दुहा जायं, पिच्छइ सव्वालंकारविभूसिअं भगवओ पडिमं" निशीथपीठेऽपि 'बलित्ति असिवोवसमनिमित्तं कुरो किज्जइ' महानिशीथेऽपि तृतीयाध्ययने 'अरिहंताणं भगवंताणं गंधमल्लपईवसंमज्जणोवलेवणविश्विण्णवलिवत्थधूवाईएहिं पूआसक्कारेहिं पइदिणमन्भचणं पकुव्वाणा तित्थुप्पणं (ण्णई) कुरामोत्ति" । ततो गोशीर्षचन्दनेरसेन पञ्चाङ्गुलितलैर्मण्डलालेखनादि पुष्पप्रकरारात्रिकादि गीतनृत्यादि च कुर्यात्,
For Private & Personal Use Only
ainelibrary.org