SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ टच बालवृद्धस्यादिसत्कं, न च ताभ्यां प्रस्खेदश्लेष्मादि स्फेटनीयं, व्यापारितवस्त्रान्तरेभ्यश्च पृथग मोच्यमिति संग्रह. 'सम्यग् स्नात्वे त्यंशः प्रदर्शितः । अथ 'जिनान् संलाप्येयंशः प्रदर्शनीयः। तत्र जिनस्लपनादिविधिश्च सम॥१२८॥ स्तपूजासामग्रीमेलनपूर्वकः, सा चेयम्-तथाहि-शुभस्थानात्खयमारामिकादिकं सुमूल्यार्पणादिना संतोष्य पवित्रभाजनाच्छादनहृदयाग्रस्थकरसंपुटधरणादिविधिना पुष्पाद्यानयेद्, वैश्वासिकपुरुषेण वाऽऽनाययेत् , जलमपि च तथा, ततोऽष्टपुटोत्तरीयप्रान्तेन मुखकोशं विद्ध्यात्, यतो दिनकृत्ये “काऊण विहिणा पहाणं, सेअवत्थनिअंसणो । मुहकोसं तु काऊणं, गिहबिंबाणि पमजए॥ १ ॥"त्ति । तमपि च यथासमाधि कुर्यात्, नासाबाधे तु नापि, यतः पूजापञ्चाशके "वत्थेण बंधिऊणं, णासं अहवा जहासमाहीए” एतद्वृत्तिर्यथावस्त्रेण-वसनेन, बद्धा-आवृत्य, नाशां-नाशिकामथवेति विकल्पार्थो, यथासमाधि-समाधानानतिक्रमेण, यदि हि नासाबन्धे असमाधानं स्यात्तदा तामबवाऽपीत्यर्थः, सर्व यत्नेन कार्यमित्यनुवर्तते इति । युक्तिमच मुखे वस्त्रबन्धनं, भृत्या अपि(तथा)खामिनोऽङ्गमर्दनश्मश्रुरचनादिकं कुर्वन्ति, यदुक्तं-"बन्धित्ता कासवओ, वयणं अट्ठग्गुणाए पोत्तीए । पत्धिवमुवासए खलु, वित्तिनिमित्तं भया चेव ॥१॥" त्ति । तथा प्रमार्जितपवित्रावव घर्षेऽसंसक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्डं संघर्ण्य भाजनद्वये पृथगुत्सारयेत्, तथा संशोधितजा-31 त्यधूपघृतपूर्णप्रदीपाखण्डचोक्षादिविशेषाक्षतपूगफलविशिष्टानुच्छिष्टनैवेद्यहृद्यफलनिर्मलोदकभृतपानादिसा- | ॥१२८॥ Pामग्री संयोजयेद, एवं द्रव्यतः शुचिता, भावतः शुचिता तु रागद्वेषकषायेष्यहिकामुष्मिकस्पृहाकौतुकव्याक्षेपा MOCOCCALCUMSACS ASSASARASARAMANG Join Education For Private Personel Use Only pelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy