SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २ मोद्य खोपकाराय संग्रह. निर्जरणपुण्यमानत्वेन T धर्म- जलोत्पत्तावनन्तरोक्तदोषानपोह्य खोपकाराय परोपकाराय च किल भवति,इत्येवं स्नानादिकमप्यारम्भदो विषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते॥१२७॥NIपूजार्थस्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावा-IN द्विषममिमित्थमुदाहरणं, ततः किलेदमित्थं योजनीयं-यथा कूपखननं खपरोपकाराय भवति, एवं स्नान-18 पूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । न चैतदागमाननु (मानु) पाति, यतो धर्मार्थ-दू प्रवृत्तावप्यारम्भजनितस्याल्पपापस्येष्टत्वात्, कथमन्यथा भगवत्याभुक्तम्-"तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते ! किं कन्जइ? गो० अप्पे पावे कम्मे बहुअरिआ से णिजरा कजइ" तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिप्रत्तिरपि कथं स्यादिति पश्चाशकवृत्ती, तत्सूत्रमपि “हाणाइवि जयणाए, आरम्भवओ गुणाय णिअमेण । सुहभावहेउओ खलु, विणेअं कूवणाएणं ॥१॥” इत्यलं प्रसङ्गेन । एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्लानमनुमतं, तेन द्रव्यलानं पुण्यायेति यत्मोच्यते तन्निरस्तं मन्तव्यं, भावलानं च शुभध्यानरूपं, यतः "ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य, भावलानं तदुच्यते ॥१॥” इति । कस्यचित् लाने कृतेऽपि यदि गडक्षतादि स्रवति, तदा तेनाङ्गपूजां खपुष्पचन्दनादिभिः परेभ्यः कारयित्वाऽग्रपूजा भावपूजा च स्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासम्भवेन खयमङ्गपूजाया ॥१२७॥ JainEducation ined For Private Personal use only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy