________________
ध. सं. २२
Jain Education In
लासनः ॥ ३ ॥" इत्यादिनीतिशास्त्रोक्तविधिना विधेयं । गण्डूषोऽपि “ अभावे दन्तकाष्टस्य, मुखशुद्धिविधिः पुनः । कार्यो द्वादशगण्डूषैर्जिहोल्लेखस्तु सर्वदा ॥ १ ॥” इति विधिना कार्योऽप्रत्याख्यानिना, प्रत्याख्यानिनस्तु दन्तधावनादि विनापि शुद्धिरेव तपसो महाफलत्वात् इदं च द्रव्यस्नानं वपुःपावित्र्य सुखकरत्वादिना भावशुद्धिहेतुः, उक्तं चाष्टके - " जलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन द्रव्यलानं तदुच्यते ॥ १ ॥” देहदेशस्य त्वङ्मात्रस्यैव, क्षणं नतु प्रभूतकालं, प्रायः शुद्धिहेतुर्न त्वेकान्तेन, ताहगरोगग्रस्तस्य क्षणमप्यशुद्धेः, प्रक्षालनार्हमलादन्यस्य- कर्णनासाद्यन्तर्गतस्यानुपरोधेन अप्रतिषेधेन यद्वा प्रायो जलादन्येषां प्राणिनामनुपरोधेन अव्यापादनेन द्रव्यस्नानं बाह्यस्नानमित्यर्थः । “कृत्वेदं यो विधानेन, देवतातिथिपूजनम् । करोति मलिनारम्भी, तस्यैतदपि शोभनम् ॥ २ ॥" विधानेन विधिना, अतिथिः साधुः, मलिनारम्भी गृहस्थः । द्रव्यस्नानस्य शोभनत्वे हेतुमाह "भावशुद्धेर्निमित्तत्वात्तथानुभवसिद्धितः । कथञ्चिदोष भावेऽपि, तदन्यगुणभावतः ॥ ३ ॥ दोषोऽष्कायविराधनादिः, तस्माद्-दोषादन्यो गुणः- सद्दर्शनशुद्विलक्षणः, यदुक्तम्" पूआए कायवहो, पडिकुट्टो सो उ किंतु जिणपूआ । सम्मत्तमुद्धिउत्ति भावणीआ उ णिरवजा ॥ १ ॥” अन्यत्राप्युक्तं- 'द्रव्यस्नानादिके यद्यपि षट्कायोपमर्दादिका काचिद्विराधना स्यात्, तथापि कूपोदाहरणेन श्रावकस्य द्रव्यस्तवः कर्तुमुचितः यदाहुः - " अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथए कुवदितो ॥ १ ॥ इदमुक्तं भवति यथा कूपखननं श्रमतृष्णाकर्दमोपले पादिदोषदुष्टमपि
For Private & Personal Use Only
jainelibrary.org