________________
धर्म
॥ १२६ ॥
Jain Education
सन्ध्यात्रयरूप एवेति” । सम्यग स्नात्वा संलाप्य चेत्यत्र सम्यक्पदाभ्यां सकलोऽपि स्नानादिविधिर्जिनप्रतिमास्नपनादिविधिश्व सूचितः, तत्र स्नानविधिः- उत्तिङ्गपनक कुन्थ्वायसंसक्त वैषम्यशुषिरादिदोषादूषितभूमौ परिमितवस्त्रपूतजलेन संपातिमसत्वरक्षणादियतनारूपः उक्तं च दिनकृत्ये "तसाइजीवरहिए, भूमिभागे विसुद्धए । फासुएणं तु नीरेणं, इअरेणं गलिएण उ ॥ १ ॥ काकणं विहिणा पहाणं" ति । तत्र - विधिना-परिमितोदकसंपातिमसत्त्वरक्षणादियतनयेति तद्वृत्तिलेशः । पञ्चाशकेऽपि “भूमीपेहणजल छाणणाइजयणा उ होइ व्हाणादो (हामि) । एतो विसुद्धभावो, अणुहवसिद्धो चिअ बुहाणं ॥ १ ॥” व्यवहारशास्त्रे तु "नग्नार्तः प्रोषितायातः, सचेलो भुक्तभूषितः । नैव स्नायादनुव्रज्य, बन्धून कृत्वा च मङ्गल || १ || " मित्यादि । स्नानं च द्रव्यभावाभ्यां द्विधा, तत्र द्रव्यस्नानं जलेन शरीरक्षालनं, तच्च देशतः सर्वतो वा, तत्र देशतो मलोत्सर्गदन्तधावनजिह्वा लेखनकरचरणमुखादिक्षालनगण्डूषकरणादि, सर्वतस्तु सर्वशरीरक्षालनमिति । तत्र च मलोत्सर्गो मौनेन निरवद्यार्हस्थानादिविधिनैवोचितः, यतः "मूत्रोत्सर्ग मलोत्सर्ग, मैथुनं स्नानभोजनम् । सन्ध्यादिकर्म पूजां च कुर्याज्ञापं च मौनवान् ॥ १ ॥" विवेकविलासेऽपि "मौनी वस्त्रावृतः कुर्याद्दिनसन्ध्याद्वयेऽपि च । उदङ्मुखः शकृन्मूत्रे, रात्रौ याम्याननः पुन ॥ १ ॥ रिति, दन्तधावनमपि "अवक्राग्रन्थिसत्कूर्चे, सूक्ष्माग्रं च दशाङ्गुलम् । कनिष्ठाग्रसमस्थौल्यं, ज्ञातवृक्षं सुभूमिजम् ॥ १ ॥ कनिष्ठिकानामिकयोरन्तरे दन्तधावनम् । आदाय दक्षिणां दंष्ट्रां, वामां वा संस्पृशंस्तले ॥ २ ॥ तल्लीनमानसः स्वस्थो, दन्तमांसव्यथां त्यजन् । उत्तराभिमुखः प्राचीमुखो वा निश्च
For Private & Personal Use Only
संग्रह -
॥ १२६ ॥
www.jainelibrary.org