________________
धर्म
संग्रह.
॥१२५॥
तप्रत्याख्यानः पश्चाचारित्रपवित्रगात्रस्य गीतार्थस्य गुरोः समीपे सूत्रोक्तविधिना कृतिकर्मादिविनयं विधाय रागादिरहितः सर्वत्रोपयुक्तः प्राञ्जलिपुटो लघुतरशब्दो गुरुवचनमनूचरन् यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्टं भवतीति । तथा प्रत्याख्यानपञ्चाशकवृत्तावपि “गिलइ सयंगहीयं काले"त्तिगाथा, गृह्णाति प्रतिपद्यते, प्रत्याख्यानमिति प्रकृतं, स्वयं गृहीतमात्मना प्रतिपन्नं विकल्पमात्रेण खसाक्षितया वा चैत्यस्थापनाचार्यसमक्षं वा, कदा गृह्णातीत्याह-काले' पौरुष्यादिके आगामिनि सति, न पुनस्तदतिक्रमे, अनागतकालस्यैव प्रत्याख्यानविषयत्वात्, अतीतवर्तमानयोस्तु निन्दासंवरणविषयत्वादिति” । इत्थं च बहुग्रन्थानुसारेण कालप्रत्याख्यानं सूर्योदयात्प्रागेवोच्चार्य, नान्यथेति तत्त्वम् । अथ प्रत्याख्यानकरणानन्तरं यत्कर्तव्यं तदाह-विधिनेति' विधिना-अनुपदमेव वक्ष्यमाणपुष्पादिसंपादनमुद्रान्यसनादिना प्रसिद्धेन चैत्यपूजनं-द्रव्यभावभेदादहत्पतिमार्चनम्, अन्वयः प्राग्वदेव । चैत्यानि च भक्ति १ मङ्गल २ निश्राकृता ३ ऽनिश्राकृत ४ शाश्वत ५ चैत्यभेदात्पञ्च, यतः-"भत्ती मंगलचेइअ निस्सकडमनिस्सचेइए वावि । सासयचेइअ पंचममुवइह जिणवरिंदेहिं ॥१॥” तत्र नित्यपूजार्थं गृहे कारिताऽहत्प्रतिमा भक्तिचैत्यं, गृहद्वारोपरि तिर्यकाष्ठमध्यभागे घटितं मङ्गलचैत्यं, गच्छसत्कं चैत्यं निश्राकृतं, सर्वगच्छसाधारणं अनिश्राकृतं ४, शाश्वतचैत्यं प्रसिद्धं ५, उक्तंच "गिहजिणपडिमाऍ भत्तिचेइअं उत्तरंगघडिअंमि । जिणबिंब मंगलचेइति समयन्नुणो बिंति ॥१॥ निस्सकडं जं गच्छसंति तदिअरं अनिस्सकडं । सिद्धाययणं च इम, चेइअपणगं विणिहिटुं॥ १ ॥” इति, तत्र चेदं भक्तिचैत्यमिति
॥१२५॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org